SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० ३६ मेरुपर्वतस्य वर्णनम् ४२७ तराणि योजनशतानि त्रीश्च एकादशभागान् योजनस्य परिक्षेपेण धरणितले एकत्रिशतं योजनसहस्राणि षट् च त्रयोविंशानि योजनशतानि परिक्षेपेण उपरितले त्रीणि योजनसहस्राणि एकं च द्वाषष्ठं योजनशतं किश्चिद्विशेषाधिकं परिक्षेपेण मूले विस्तीर्णः मध्ये संक्षिप्तः उपरि तनुकः गोपुच्छसंस्थानसंस्थितः सर्व रत्नमयः अच्छ: श्लक्ष्ण इति । स खलु एकया पदमवरवेदिकया एकेन च वनषण्डेन सर्वतः समन्तात् संपरिक्षिप्तः, वर्णक इति, मन्दरे खलु भदन्त ! पर्वते कति वनानि प्रज्ञप्तानि !, गौतम ! चत्वारि वनानि प्रज्ञतानि, तद्यथा-भद्रशा (सा) लवनं १ नन्दनवनं २ सौमनसवनं ३ पण्ड कवनम् ४ क्व खलु भदन्त ! मन्दरपर्वते भद्रशालवनं नाम वनं प्रज्ञप्तम् ?, गौतम ! धरणितले अत्र खलु मन्दरे पर्वते भद्रशालवनं नाम वनं प्रज्ञप्तं प्राचीनप्रतीचीनायतम् उदीणदक्षिण विस्तीर्ण सौमनसविद्युत्प्रम गन्धमादनमाल्यवद्भिर्वक्षस्कारपर्वतैः शीताशीतोदाभ्यां च महानदीभ्याम् अष्टभागप्रविभक्तं मन्दरस्य पर्वतस्य पौरस्त्यपश्चिमेन द्वाविंशति द्वाविशति योजनसहस्राणि आयामेन उत्तरदक्षिणेन अर्द्धतृतीयानि अद्धतृतीयानि योजनशतानि विष्कम्भेणेति, तत् खलु एकया पद्मवरवेदिकया एकेन वनषन्डेन सर्वतः समन्तात् संपरिक्षिप्तं द्वयोरपि वर्णको भवणितव्यः कृष्णः कृष्णावभासः यावद् देवा आसते शेरते, मन्दरस्य खलु पर्वतस्य पौरस्त्येन भद्रशालवनं पश्चशतं योजनानि अवगाह्य अत्र खलु महदेकं सिद्धायतनं प्रज्ञप्ते पञ्चाशतं योजनानि आयामेन पञ्चविंशति योजनानि विष्कम्भेण षत्रिंशतं योजनानि ऊध्वमुच्चत्वेन अनेकस्तम्भशतसन्निविष्टं वर्णकः, तस्य खलु सिद्धायतनस्य त्रिदिशि त्रीणि द्वाराणि प्रज्ञप्तानि, तानि खलु द्वाराणि अष्ट योजनानि ऊर्ध्वमुच्चत्वेन चत्वारि योजनानि विष्कम्भेण तावदेव च प्रवेशेन श्वेताः वरकनकस्तूपिकाकाः यावद् वनमालाः भूमिभागश्च भणितव्यः, तस्य खलु बहमध्यदेशभागे अत्र खलु महत्येका मणिपीठिका प्रज्ञप्ता अष्ट योजनानि मायामविष्कम्भेण चत्वारि योजनानि बाहल्येन सर्वरत्नमयी अच्छा, तस्याः खलु मणिपीठिकाया उपरि देवउछन्दकोऽष्टयोजनानि आयामविष्कम्भेण सातिरेकाणि अष्टयोजनानि ऊर्ध्वमुच्चत्वेन यावत् जिनप्रतिमावर्णकः देवच्छन्दकस्य यावद् धूपकडुच्छुकाणामिति । मन्दरस्य खलु पर्व. तस्य दक्षिणेन भद्रशालवनं पश्चाशतं (योजनानि) एवं चतुर्दिश्यपि मन्दरस्य भद्रशालवने चरवारि सिद्धायतनानि भणितव्यानि मन्दरस्य खलु पर्वतस्य उत्तरपौरस्त्येन भद्रशालवनं पञ्चाशतं योजनानि अवगाह्य अत्र खलु चतस्रो नन्दापुष्करिण्यः प्रज्ञप्ताः तयया-पद्मा १ पद्मप्रभा २ चैव कुमदा ३ कुमदप्रभा ४, ताः खलु पुष्करिण्यः पञ्चशतं योजनानि आयामेन पञ्चविंशति योजनानि विष्कम्भेण दशयोजनानि उद्वेधेन वर्णकः वेदिका वनषण्डयो भणितव्यः, चतुर्दिशि तोरणाः यावत् तासां खलु पुष्करिणीनां बहुमध्यदेश मागे अत्र खल महानेक ईशानस्य देवेन्द्रस्य देवराजस्य प्रासादावतंसकः प्रज्ञप्तः पञ्चयोजनशतानि ऊर्ध्वमुच्चत्वेन अतृतीयानि योजनशतानि विष्कम्भेण, अभ्युद्गतीच्छ्रित० एवं सपरिवा : प्रासादावतंसको भणितव्यः, मन्दस्य खलु एवं दक्षिणपौरस्त्येन पुष्करिण्यः उत्पलगुल्मा જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006355
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages806
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy