SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० २८ द्वितीयसुकच्छविजयनिरूपणम् ३५३ तद्यथा-सिद्धायतनकूटं १ नलिनकूटं २ आवर्तकूटं ३ मङ्गलावर्तकूटम् ४ एतानि कूटानि पञ्चशतिकाराजधान्य उतरेण, क्व खलु भदन्त ! महाविदेहे वर्षे मङ्गालावतों नाम विजयः प्रज्ञप्तः ?, गौतम ! नीलवतो दक्षिणेन सीताया उतरेण नलिनकूटस्य पौरस्त्येन पङ्कावत्याः पश्चिमेन, अत्र खलु मङ्गालवत्तों नाम विजयः प्रज्ञप्तः, यथा कच्छस्य विजयः तथा एप भणितच्यः यावद मङ्गलावतोऽत्र देवः परिवसति, स एतेनार्थेन । क्व खलु भदन्त ! महाविदेहे वर्षे पङ्कावती कुण्डं नाम कुण्डं प्रज्ञप्तम् ?, गौतम ! मगलावर्तस्य पौरस्त्येन पुष्कल विजयस्य पश्चिमेन नीलवतो दाक्षिणात्ये नितम्बे अत्र खलु पङ्कावती यावत् कुण्डं प्रज्ञप्तम्, तदेव ग्राहावातीकुण्डप्रमाणं यावत् मङ्गलावर्तपुष्कलावर्तविजयो द्विधा विभजमाना २ अवशेषं तदेव यदेव ग्राहावत्याः। क्ब खलु भदन्त | महाविदेहे वर्षे पुष्कलावतों नाम विजयः प्रज्ञप्तः ?, गौतम ! नीलवतो दक्षिणेन सीताया उत्तरेण पङ्कावत्याः पौरस्त्येन एकशैलस्य वक्षस्कारपर्वतस्य पश्चिमेन, अत्र खलु पुष्कलावतों नाम विजयः प्रज्ञप्तः, यथा कच्छविजयः तथा भणितव्यम् यावत पुष्कलोऽत्र देवो महर्द्धिकः पल्योपमस्थितिकः प्रतिवसति, स एतेनार्थेन । __क्य खलु भदन्त ! महाविदेहे वर्षे एकशैलो नाम वक्षस्कारपर्वतः प्रज्ञप्तः ?, गौतम ! पुष्कलावतं चक्रवतिविजयस्य पौरस्त्येन पुष्कलावती चक्रवर्तिविजयस्य पश्चिमेन नीलवतो दक्षिणेन सीताया उत्तरेण, अत्र खलु एकशैलो नाम वक्षस्कारपर्वतः प्रज्ञप्तः, चित्रकूटगमेन नेतव्यो यावद् देवा आसते, चत्वारि कूटानि तद्यथा-सिद्धायतनकूटम् १ एकशैलकूटं २ पुष्कलावतकूटं ३ पुष्कलावीकूटम् ४, कटानां तदेव पञ्चशतिकं प्रमाणं यावद् एकशैलोऽत्रदेवो महर्दिकः। क्व खलु भदन्त ! महाविदेहे वर्षे पुष्कलावती नाम चक्रवर्ति विजयः प्रज्ञप्तः ?, गौतम ! नीलवतो दक्षिणेन सीताया उत्तरेण औत्तराहस्य सीतामुखवनस्य पश्चिमेन एकशैलस्य वक्षस्कारपर्वतस्य पौरस्त्येन, अत्र खलु महाविदेहे वर्षे पुष्कलावती नाम विजयः प्रज्ञप्तः, उत्तरदक्षिणायतः एवं यथा कच्छविजयस्य यावत् पुष्कलावती चात्रदेवः परिवसति, एतेनार्थन। क्व खलु भदन्त ! महाविदेहे वर्षे सीताया महानद्या औत्तराहे सीतामुखवनं नाम वनं प्रज्ञप्तम् ?, गौतम ! नीलवतो दक्षिणेन सीताया उत्तरेण पौरस्त्यलवणसमुद्रस्य पश्चिमेन पुष्कलावती चक्रवतिविजयस्य पौरस्त्येन, अत्र खलु सीतामुखवनं नाम वनं प्रज्ञसम्, उत्तरदक्षिणायतं प्राचीनप्रतीचीनविस्तीर्ण पोडश योजनसहस्राणि पञ्च च द्वानवतानि योजनशतानि द्वौ च एकोनविंशतिभागौ योजनस्य आयामेन सीताया महानद्या अन्तेन योजनसहस्राणि नव च द्वाविंशानि योजनशतानि विष्कम्भेण तदनन्तरं च खलु मात्रया २ परिहीयमानं २ नीलवरपंधरपर्वतान्तेन एकोनविंशतिभागं योजनस्य विष्कम्भेणेति, तत् खलु एकया पद्मवर वे. दिकया एकेन च वनषण्डेन संपरिक्षिप्तम् वर्णकः सीतामुखवनस्य यावद् देवा आसते, एवमौत राहं पार्श्व समाप्तम् । विजया भणिताः । राजधान्य इमा:-क्षेमा १ क्षेमपुरा २ चैव अरिष्ठा ३ अरिष्ठपुरा ४ तथा । खगी ५ मज्जूषा ६ अपि च औषधी ७ पुण्डरी किणी ८॥२॥ ज० ४५ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006355
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages806
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy