SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ३५२ ____ जम्बूद्वीपप्रज्ञप्तिसूत्रे शाकुण्डं तथैव यावत् ग्राहावतीद्वीपं भवनम् तस्य खलु ग्राहावत्याः कुण्डस्य दाक्षिणात्येन तोरणेन ग्राहावती महानदी प्रव्यूढा सती सुकच्छमहाकच्छविजयौ द्विधा विभज्यमाना २ अष्टाविंशत्या सलिलासहस्रैः समग्रा दक्षिणेन सीतां महानदीं समाप्नोति, ग्राहावत्याः खलु महानद्याः प्रवहे च मुखे च सर्वत्र समा पञ्चविंशानि योजनशतानि विष्कम्भेण अर्द्धतृतीयानि योजनानि उद्वेधेन उभयोः पार्श्वयोः द्वाभ्यां च पद्मवरवेदिकाभ्यां द्वाभ्यां च वनपण्डाभ्यां यावद द्वयोरपि वर्णकः इति । क्व खलु भदन्त ! महाविदेहे वर्षे महाकच्छो नाम विजयः प्रज्ञप्तः ?, गौतम ! नीलवतो वर्षधरपर्वतस्य दक्षिणेन सीताया महानघा उत्तरेण पक्ष्मकूटस्य वक्षस्कारपर्वतस्य पश्चिमेन ग्राहावत्या महानद्याः पौरस्त्येन अत्र खलु महाविदेहे वर्षे महाकच्छो नाम विजयः प्रज्ञप्तः, शेषं यथा कच्छविजयस्य यावद् महाकच्छोऽत्र देवो महर्दिक: अर्थश्च भणितव्यः । क्व खलु भदन्त ! महाविदेहे वर्षे पक्ष्मकूटो नाम वक्षस्कारपर्वतः प्रज्ञप्तः?, गौतम ! नीलवतो दक्षिणेन सीताया महानद्याः उतरेण महाकच्छस्य पौरस्त्येन कच्छावत्याः पश्चिमेन अत्र खलु महाविदेहे वर्षे पक्ष्मकूटो नाम वक्षस्कारपर्वतः प्रज्ञप्तः, उत्तरदक्षिणायतः प्राचीनप्रतीचीनविस्तीर्णः शेषं यथा चित्रकूटस्य यावदासते, पक्ष्मकूटे चत्वारि कूटानि प्रज्ञप्तानि, तद्यथा सिद्धायतनकूटं १ पक्ष्मकूटं २ महाकच्छकूटं ३ कच्छावतीकूटम् ४ एवं यावद अर्थः, पक्ष्मकूटोऽत्र देवो महदिकः पल्योपमस्थितिकः परिवसति, स तेनार्थेन गौतम ! एवमुच्यते । क्व खलु भदन्त ! महाविदेहे वर्षे कच्छावती नाम विजयः प्रज्ञप्तः, गौतम ! नीलवतो दक्षिणेन सीताया महानद्या उत्तरेण हृदावत्या महानद्याः पश्चिमेन पक्षमकूटस्य पौरस्त्येन अत्र खलु महाविदेहे वर्षे कच्छावती नाम विजयः प्रज्ञप्तः, उत्तरदक्षिणायतः प्राचीनप्रतीचीनविस्तीर्णः शेषं यथा कच्छस्य विजयस्य यावत कच्छावती चात्र देवः, क्व खलु भदन्त ! महाविदेहे वर्षे हृदावती कुण्डं नाम कुण्डं प्रज्ञप्तम्, गौतम ! आवर्तस्य विजयस्य पश्चिमेन कच्छकावत्या विजयस्य पौरस्त्येन नीलवतोदाक्षिणात्ये नितम्बे अत्र खलु महाविदेहे वर्ष इदावतीकुण्ड नामकुण्डं प्रज्ञप्तम्, शेषं यथा ग्राहावतीकुण्डस्य यावअर्थः, तस्य खलु हृदावतीकुण्डस्य दक्षिणेन तोरणेन हृदावती महानदी प्रव्यूढासती कच्छावत्यावतौं विजयौ द्विधा विभजमाना २ दक्षिणेन सीतां महानदी समाप्नोति, शेषं यथा ग्राहावत्याः। ___ क्व खलु भदन्त ! महाविदेहे वर्षे आव? नाम विजयः प्रज्ञप्तः ?, गौतम ! नीलवतो वर्षधरपर्वतस्य दक्षिणेन सीताया महानद्या उत्तरेण नलिनकूटस्य वक्षस्कारपर्वतस्य पश्चिमेन हृदावत्या महानद्याः पौरस्त्येन अत्र खलु महाविदेहे वर्षे आवतों नाम विजयः प्रज्ञप्तः, शेष यथा कच्छस्य विजयस्य इति । क्व खलु भदन्त ! महाविदेहे वर्षे नलिनकूटो नाम वक्षस्कारपर्वतः प्रज्ञप्तः १, गौतम ! नीलवतो दक्षिणेन सीताया उत्तरेण मङ्गलावत्याः विजयस्य पश्चि. मेन आवर्तस्य विजयस्य पौरस्त्येन अत्र खलु महाविदेहे वर्षे नलिनकूटो नाम वक्षस्कारपर्वतः प्रज्ञप्तः, उत्तरदक्षिणायतः प्राचीनप्रतीचीनविस्तीर्णः शेपं यथा चित्रकूटस्य यावत आसते. नलिनटे खलु भदन्त ! कतिकूटानि प्रज्ञप्तानि ?, गौतम ! चत्वारि कूटानि प्रज्ञप्तानि, જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006355
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages806
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy