SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० २१ यमका राजधान्योर्वर्णनम् तेषां खलु प्रेक्षागृहमण्डपानां पुरतो मणिपीठिकाः प्रज्ञप्ताः, ताः खलु मणिपीठिकाः द्वे योजने आयामविष्कम्भेण, योजनं बाहल्येन, सर्वमणिमय्यः, तासां खलु उपरि प्रत्येक प्रत्येकं त्रयस्तूपाः, ते खलु स्तूपा द्वे योजने ऊर्ध्वमुच्चत्वेन, द्वे योजने आयामविष्कम्भेण, श्वेताः शङ्खतल यावत् अष्टाष्टमङ्गलकानि, तेषां खलु स्तूपानां चतुर्दिशि चतस्रो मणिपीठिकाः प्रज्ञप्ताः, ताः खलु मणिपीठिकाः योजनमायामविष्कम्भेण, अर्द्धयोजनं बाहल्येन, जिनप्रतिमाः वक्तव्याः, चैत्यवृक्षाणां मणिपीठिकाः द्वे योजने आयामविष्कम्भेण, योजनं बाहल्येन चैत्यवृक्षवर्णक इति । तेषां खलु चैत्यवृक्षाणां पुरतस्ताः मणिपीठिकाः प्रज्ञप्ताः, ताः खलु मणिपीठिकाः योजनमायामविष्कम्भेण अर्द्धयोजनं बाहल्येन, तासामुपरि प्रत्येकं २ महेन्द्रध्वजाः प्रज्ञप्ताः, ते खलु अष्टिमानि योजनानि ऊर्ध्वमुच्चत्वेन, अर्द्धक्रोशमुद्वेधेन, अर्द्धक्रोशं बाहल्येन, वज्रमयवृत्तवर्णकः वेदिकावनषण्डत्रिसोपानतोरणाश्च भणितव्याः, ___ तयोः खलु सभयोः सुधर्मयोः षट् च मनोगुलिकासाहस्त्र्यः प्रज्ञप्ताः, तद्यथा-पौरस्त्येन द्वे साहस्यौ प्रज्ञप्ते, पाश्चात्येन द्वे साहस्च्यौ दक्षिणेन एका साहस्री उत्तरेण एका यावत् दामानि तिष्ठन्तीति, एवं गोमानसिकाः, नवरं धूपघठिका इति, ___ तयोः खलु सुधर्मयोः सभयोः अन्तः बहुसमरमणियो भूमिभागः प्रज्ञप्तः, मणिपीठिका द्वे योजने आयामविष्कम्भेण, योजनं बाहल्येन, तयोः खलु मणिपीठिकयोरुपरि माणवके चैत्यस्तम्भे महेन्द्रध्वजप्रमाणे उपरि षट्क्रोशान अवगाह्य अधः षट्क्रोशान् वर्जयित्वा जिनसक्थीनि प्रज्ञप्तानि इति, माणवकस्य पूर्वेण सिंहासने सपरिवारे, पश्चिमेन शयनीयवर्णकः, शयनीययोरुत्तरपौरस्त्ये दिग्भागे क्षुदकमहेन्द्रध्वजौ मणिपीठिकाविहीनौ महेन्द्रध्वजप्रमाणौ, तयोरपरेण चोप्पालौ प्रहरणकोशौ, तत्र खलु बहूनि परिघरत्नप्रमुखाणि यावत् तिष्ठन्ति, सुधर्मयोरुपरि अष्टाष्टमङ्गलकानि, तयोः खलु उत्तरपोरस्त्येन सिद्धायतने, एष एव जिनगृहाणामपि गम इति, नवरमिदं नानात्वम् एतेषां खलु बहु मध्यदेशभागः प्रत्येकं २ मणिपीठिका दे योजने आयामविष्कम्भेण योजनं बाहल्येन, तासामुपरि प्रत्येक२ देवच्छन्दके प्रज्ञप्ते द्वे योजने आयामविष्कम्भेण, सातिरेके द्वे योजने, ऊर्ध्वमुच्चत्वेन, सर्वरत्नमये, जिनप्रतिमा वर्णको यावत् धूपकटुच्छुका, एवमवशेषाणामपि सभानां यावद् उपपातसभायां शयनीयं हदकश्च, अभिषेकसभायां बहुआभिषेक्यं भाण्डम् , अलङ्कारिकसभायां बहु अलङ्कारिकमाण्डं तिष्ठति, व्यवसायसभयोः पुस्तकरत्ने नन्दापुष्करिण्यौ, बलिपीठे द्वे योजने आयामविष्कम्भेण योजनं बाहल्येन यावदिति 'उपपातः सङ्कल्पः अभिषेकविभूषणा च व्यवसायः । अर्चनिका सुधर्मागमो यथा च परिवारणा ऋद्धिः॥१॥ यावति प्रमाणे भवतो यमको नीलवतः । तावदन्तरं खलु यमकहूदाणां हूदाणां च ॥२॥० २१॥ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006355
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages806
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy