SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ १९८ जम्बूद्वीपप्रज्ञप्तिसूत्रे येन, सर्वमणिमयानि अच्छानि, यमिकयो राजधान्योः एकेकस्यां बाहायां पञ्चविंशं पञ्चविंशं द्वारशतं प्रज्ञप्तम्, तानि खलु द्वाराणि द्वाषष्टिं योजनानि अर्द्धयोजनं च उर्ध्वमुच्चत्वेन एकत्रिशतं योजनानि क्रोशं च विष्कम्भेण तावदेव प्रवेशेन, श्वेतानि वर कनकस्तूपिकाकानि, एवं राजप्रश्नीय विमानवक्तव्यतायां द्वारवर्णको यावत् अष्टाष्टमङ्गलकानि इति, यमिकयो राजधान्योश्चतुर्दिशि पञ्चपञ्च योजनानि अवाधायां चत्वारि वनखण्डानि प्रज्ञप्तानि तद्यथा - अशोकवनम् १ सप्तपर्णवनम् २ चम्पकवनम् ३ चूतवनम् ४, तानि खलु वनखण्डानि सातिरेकाणि द्वादश योजनसहस्राणि आयामेन पञ्च योजनशतानि विष्कम्भेण प्रत्येकं२ प्राकारपरिक्षिप्तानि कृष्णानि वनपण्डवर्णकः भूमयः प्रासादावतंसकाश्च भणितव्याः, यमको राजधान्योरन्तर्बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, वर्णक इति, तेषां खलु बहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागः, अत्र खलु द्वे उपकारिकालयने प्रज्ञप्ते, द्वादश योजनशतानि आयामविष्कम्भेण त्रीणि योजनसहस्राणि सप्त च पञ्चनवतानि योजनशतानि परिक्षेपेण, अर्द्धक्रोशं च बाहल्येन सर्वजाम्बूनदमयाः अच्छाः, प्रत्येकं २ पद्मवर वेदिका परिक्षिप्ताः, प्रत्येकं २ वनपण्डवर्णको भणितव्यः, त्रिसोपानप्रतिरूपकाणि तोरणचतुर्दिशि भूमिभागाश्च भणितव्या इति, तस्य खलु बहुमध्य देशभागः, अत्र खलु एकः प्रासादावतंसकः प्रज्ञप्तः, द्वापष्टि योज - नानि अर्द्धयोजनं च ऊर्ध्वमुच्चत्वेन एकत्रिशतं योजनानि क्रोशं च आयामविष्कम्भेण वर्णकः उल्लोको भूमिभाग सिंहासने सपरिवारे, एवं प्रासादपङ्क्तयः (अत्र खलु प्रथमा पक्तिः ते खलु प्रासादावतंसकाः) एकत्रिशतं योजनानि क्रोशं च ऊर्ध्वमुच्चत्वेन सातिरेकाणि अर्द्धषोडश योजनानि आयामविष्कम्भेण द्वितीया प्रासादपक्तिः - ते खलु प्रासादावतंसकाः सातिरेकाणि अर्द्धषोडशयोजनानि ऊर्ध्वमुच्चत्वेन सातिरेकाणि अर्द्धाष्टमानि योजनानि आयामविष्कम्भेण तृतीया प्रासादपक्तिः - ते खलु प्रासादावतंसकाः सातिरेकाणि अर्द्धष्टमानि योजनानि ऊर्ध्वमुच्चत्वेन सातिरेकाणि अध्युष्टयोजनानि आयामविष्कम्भेण, वर्णकः सिंहासनानि सपरिवाराणि, तयोः खलु मूलप्रासादावतंसकयो: उत्तरपौरस्त्ये दिग्भागः, अत्र खलु यमकयोर्देवयोः सभे सुधर्मे प्रज्ञप्ते, अर्द्ध त्रयोदश योजनानि आयामेन षट्सको शानि विष्कम्भेण नव योजनानि ऊर्ध्वमुच्चत्वेन अनेकस्तम्भशतशत सन्निविष्टे, सभावर्णकः, तयोः खलु सभयोः सुघर्मयोः त्रिदिशि त्रीणि द्वाराणि प्रज्ञप्तानि तानि खलु द्वाराणि द्वे योजने ऊर्ध्वमुच्चत्वेन, योजनं विष्कम्भेण तावदेव प्रवेशेन, श्वेतानि वर्णकः यावद् वनमाला, तेषां खलु द्वाराणां पुरतः प्रत्येकंर त्रयो मुखमण्डपाः प्रज्ञप्ताः, ते खलु मुखमण्डपाः, अर्द्ध त्रयोदशयोजनानि आयामेन पट्सक्रोशानि योजनानि विष्कम्भेण सातिरेके द्वे योजने ऊर्ध्वमुच्चत्वेन यावद् द्वाराणि भूमिभागाति, प्रेक्षागृह मण्डपानां तदेव प्रमाणं भूमिभागो मणिपीठिका इति, ताः खलु मणिपीठिकाः योजनमायामविष्कम्भेण अर्द्धयोजनं बाहल्येन, सर्वमणिमय्यः, सिंहासनानि भणितव्यानि, જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006355
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages806
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy