________________
प्रकाशिका टीका - चतुर्थवक्षस्कार: सू० १५ निषधवर्षधर पर्वत निरूपणम्
१३१
स चउद्दिसि चत्तारि तिसोवाणपडिरुवगा पण्णत्ता, एवं जाव आयामविक्खंभविहूणा जा चैव महापउमदहस्स वत्तव्वया सा चेव तिगिंछि दहस्स वि वक्तव्वा तं चैव पउमद्दहप्पमाणं अट्ठो जाव तिर्गिछि वण्णाई धिय इत्यदेवी महिड्डिया जाव पलिओवमट्ठिईया परिवसइ, से तेण - द्वेणं गोयमा ! एवं बुच्चइ तिर्गिदि तिििद ॥ सू० १५॥
छाया -क्व खलु भदन्त ! जम्बूद्वीपे द्वीपे निषधो नाम वर्षधर पर्वतः प्रज्ञप्तः, गौतम ! महा विदेहस्य वर्षस्य दक्षिणेन हरिवर्षस्य उत्तरेण पौरस्त्यलवण समुद्रस्य पश्चिमेन पश्चिमलवणसमुद्रस्य पौरस्त्येन अत्र खलु जम्बूद्वीपे द्वीपे निषधो नाम वर्षधरपर्वतः प्रज्ञप्तः, प्राचीनप्रतीचीनाऽऽयतः उदीचीनदक्षिणविस्तीर्णः द्विधा लवणसमुद्रं स्पृष्टः पौरस्त्यया यावत् स्पृष्टः पाश्चात्यया यावत् स्पृष्टः चत्वारि योजनशतानि ऊर्ध्वमुच्चत्वेन चत्वारि न्यू शतानि उद्वेधेन षोडश योजनसहस्राणि अष्ट च द्वाचत्वारिंशानि योजनशतानि द्वौच एकोनविंशतिभागौ योजनस्य विष्कम्भेण, तस्य बाहा पौरस्त्यपश्चिमेन विंशति योजनसहस्राणि एकं च पञ्चपष्टं योजनशतं द्वौ च एकोनविशतिभागौ योजनस्य अर्द्धभागं च आयामेन तस्य जीवा उत्तरेण यावत् चतुर्नवतिं योजनसहस्राणि एकं च षट् पञ्चाशं योजनशतं द्वौ च एकोनविंशतिभागौ योजनस्य आयामेनेति, तस्य धनुः दक्षिणेन एकं योजनशतसहस्रं चतुर्विंशति च योजनसहस्राणि त्रीणि च षट्चत्वारिंशानि योजनशतानि नव च एकोनविंशति भागान् योजनस्य परिक्षेपेणेति रुचकसंस्थानसंस्थितः सर्वतपनीयमयः अच्छः उभयोः पार्श्वयोः द्वाभ्यां पद्मवरवेदिकाभ्यां द्वाभ्यां च वनषण्डाभ्यां यावत् संपरिक्षिप्तः, निषधस्य खलु वर्षधरपर्वतस्य उपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, यावद् आसते शेरते तस्य खलु बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागः अत्र खलु महानेकः तिगिंछि ( पुष्परजो ) हदो नाम हूदः प्रज्ञप्तः, प्राचीनप्रतीचीनायतः उदीचीन दक्षिण विस्तीर्णः चत्वारि योजनसहस्राणि आयामेन द्वे योजनसहस्त्रे विष्कम्भेण दश योजनानि उद्वेधेन अच्छः श्लक्ष्णः रजतमयकूलः तस्य खलु तिर्गिछि ( पुष्प रजो ) ह्रदस्य चतुर्दिशि चत्वारि त्रिसोपानप्रतिरूपकानि प्रज्ञप्तानि एवं यावत् आयामविष्कम्भविधूता (विहीना ) या एव महापद्मदस्य वक्तव्यता सा एवं तिगिंधि (पुष्परजो ) ह्रदस्यापि वक्तव्या तदेव पद्मरूद प्रमाणम् अर्थो यावत् तिर्गछि ( पुष्परजो ) वर्णानि, धृतिश्चात्र देवि महर्द्धिका यावत् पल्योपमस्थितिका परिवसति, अथ तेनार्थेन गौतम ! एवमुच्यते तिगिंछि ( पुष्परजो) हृदः २ ॥ ० १५||
टीका- 'कहि णं भंते ! जंबुद्दीवे २' इत्यादि, 'कहि णं भंते ! जंबुद्दीवे २ णिस हे णामं बासहरपव्वए पण्णत्ते' कुत्र खलु भदन्त ! जम्बूद्वीपे द्वीपे निषधो नाम वर्षधरपर्वतः प्रज्ञप्तः ? भगवानाह - 'गोयमा' हे गौतम ! ' महाविदेहस्स वासस्स दक्खिणेण हरिवासस्स उत्तरेणं
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર