SearchBrowseAboutContactDonate
Page Preview
Page 848
Loading...
Download File
Download File
Page Text
________________ ८३६ जम्बूद्वीपप्रज्ञप्तिसूत्रे त्था, तरणं से भरहे राया चक्करयणदेसियमग्गे जाव खंडप्पवाय गुहाओ दक्खिपिल्लेणं दारेण णी णेइ ससिव्व मे हंधयारनिवहाओ ||मू०२६|| छाया - ततः खलु तद्दिव्यं चक्ररत्नं गङ्गाया देव्याः अष्टाहिकायां महामहिमायां निवृत्तायां सत्याम् आयुधगृहशालातः प्रतिनिष्क्रामति प्रतिनिष्क्रम्य यावद् गङ्गायाः महानद्याः पश्चिमे कूले दक्षिणदिशि खण्डप्रपातगूहाभिमुखं प्रयातं चाप्यभवत्, ततः खलु स भरतो राजा यावत् यत्रैव खण्डप्रपातगुहा तत्रैव उपागच्छति उपागत्य सर्वा कृतमालवक्तव्यता नेतव्या नवरं नाटयमालको नृत्तमालको वा देवः प्रीतिदान तस्य अलाङ्कारिकभाण्डं कटकानि च शेषं सर्वं तथैव यावत् अष्टाहिका महामहिम | | ततः खलु स भरतो राजा नाव्यमालकस्य नृत्तमालकस्य वा देवस्य अष्टाहिकायां महामहिमायां निवृत्तायां सत्यां सुषेणं सेनापति शब्दयति शब्दयित्वा यावत् सिन्धुगमो नेतव्यः, यावद् गङ्गायाः महानयाः पौरस्त्यं निष्कुटं सगङ्गासागर गिरिमर्यादं समविषमनिष्कुटानि च ओअवेति साधयति साधयित्वा अम्याणि वराणि रत्नानि प्रतीच्छति प्रतीष्य, यत्रैव गङ्गामहानदी तत्रैव उपागच्छति उपागत्य द्वितीय मपि सस्कन्धावारबलः गङ्गामहानदी विमलजलतुङ्गवीचि नौभूतेन चर्मरत्नेन उतरति, उत्तीर्य यत्रैव भरतस्य राज्ञो विजयस्कन्धावारनिवेशो यत्रैव बाह्या उपस्थानशाला तत्रैब उपागच्छति उपागत्य अभ्याणि वराणि रत्नानि गृहीत्वा यत्रैव भरतो राजा तत्रैव उपागच्छति उपागत्य करतलपरिगृहीतं यावदञ्जलिं कृत्वा भरतं राजानं जयेन विजयेन वर्द्धयति वर्द्धयित्वा अम्याणि वराणि रत्नानि उपनयति, ततः खलु स भरतो राजा सुषेणस्य सेनापतेः अद्रयाणी वराणि रत्नानि प्रतोच्छति प्रतीष्य सुषेणं सेनापति सत्कारयति सन्मानयति सत्कार्य सन्मान्य प्रतिविसर्जयति, ततः खलु स सुषेणः सेनापतिः भरतस्य राज्ञः शेषमपि तथैव यावत् विहरति, ततः खलु स भरतो राजा अन्यदा कदाचित् सुषेणं सेनापतिरत्नं शब्दयति शब्दयित्वा एवम् अवादीत् गच्छ खलु भो देवानुप्रियः खण्डप्रपात गुहायाः औत्तराहस्य द्वारस्य कपाट विघाटय विघाटय यथा तमिस्त्रगुहायाः तथा भणितव्यं यावत् प्रियं भवतां भवतु शेषं तथैव यावत भरतः ओत्तराहेण द्वारेण गच्छति, शशीव मेघान्धकारनिवहम् तथैव प्रविशन् मण्डलानि आलिखति तस्याः खलु खण्डप्रपातगुहाया बहुमध्यदेश भागे यावत् उम्मग्ननिमग्नजले नाम्न्यौ द्वे महानद्यौ तथैव नवरं पाश्चात्यात् कटकात् प्रत्यूढे, पौरस्त्येन गङ्गां महानदीं समाप्नुतः, शेषं तथैव नवरं पाश्चात्येन कूलेन गङ्गायाः संक्रमवक्तव्यता तथैव इति ततः खलु खण्डप्रपात गुहायाः दाक्षिणात्यस्य द्वारस्य कपाटौ स्वयमेव महता महता कौवारवं कुर्वाणौ 'सरसरस्स' अनुकरणशब्दं कुर्वाणों स्वके स्थाने प्रत्यवाग्वकिषाताम् ततः स्वत्लु स भरता राजा चक्ररत्नदेशितमान यावत् खण्डप्रपातगुहातो दाक्षि जात्येन द्वारेण निरेति शशीव मेधान्धकारनिवहात् ! | सू २६ || टीका "तरण से दिव्वे" इत्यादि । 'तरण से दिव्वे चक्करयणे गंगाए देवीए अट्ठाहियाए महामहिमाए णिव्वताए समाणीए आउरसालाओ पडिणिक्खमइ' ततः खलु गङ्गादेवी साधनानन्तरं खलु तद्दिव्यं જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy