________________
प्रकाशिकाटीका द्वि० वक्षस्कार सू. २५ तेषां मनुजानां आहादिक निरूपणम्
सम्प्रति तेषां मनुजानां कियत्सु दिनेसु व्यतीतेषु आहारप्रयोजनं भवति ? तेषामाहारश्व कीदृशो भवति ? तस्मिन्काले च पृथिव्याः पुष्पफलानां च कीदृश आस्वादोभबति ? इति च प्रदर्शयितुमाह -
मूलम् — तेसि णं मणुयाणं केवइकालस्स आहारट्ठे समुप्पज्जइ ? गोयमा ! अट्टममत्तस्स आहारट्ठे समुप्पज्जइ । पुढवीपुप्फफलाहारा णं ते मणुया पण्णत्ता समणाउसो ! तीसे णं भंते ! पुढवीए केरिसए आसाए पण्णत्ते ? से जहा नामए गुलेइ वा खंडेइ वा सक्कराइ वा मच्छंडियाई वा पप्पडमोइ वा भिसेइ वा पुप्फुत्तराइ वा पउमुत्तराइ वा विजयाइ वा महाविजयाइ वा आकासियाइ वा आदंसियाइ वा आगासफलोवमाइ वा उवमाइ वा अणोवमाइ वा भवेएयारूवे ? गोयमा ! णो इणट्ठे समट्टे, साणं पुढवी इतो इतरिया चैव जाव मणामतरिया चेव आसारणं पण्णता । तेसिणं भंते! पुप्फफलाणं केरिसए आसाए पण्णत्ते ! से जहा णामए रण्णो चाउरंतचक्कवट्टिस्स कलाणे भोयणजाए सयसहस्सनिप्फने वणेण उवे जाव फासेणं उवेए आसायणिज्जे विसायणिज्जे दिप्पणिज्जे दप्पणिज्जे मयणिज्जे बिंहणिज्जे सव्विंदियगाय पल्हाय णिज्जे भवे एयारूवे ? गोयमा ! णो इणट्ठे समट्ठे, तेसिणं पुप्फफलाणं एतो इतराए चेव जाव आसाए पण्णत्ते ||सू०२५॥
२४९
छाया - तेषां खलु मनुजानां कियत्कालेन आहारार्थः समुत्पद्यते । गौतम! अष्टमभकेन आहारार्थः समुत्पद्यते, पृथिवीपुष्पफलाहाराः खलु मनुजाः प्रज्ञप्ताः श्रमणायुष्मन् ! तस्याः खलु पृथिव्या भदन्त ! कीदृशक आस्वादः प्रज्ञप्तः तद्यथानामक गुड इति खण्डमितिवा शर्करेति वा मत्स्यण्डिकेति वा पर्पटमोदक इति वा विसमिति वा पुष्पोत्तरेति बा पद्मोत्तरेति वा विजयेति वा महाविजयेति वा आकाशिकेति वा आदर्शिकेति षा आकाशफलोपमेति वा उपमेति वा अनुपमेति वा भवेदेतद्रूपः ! गौतम! नो अयमर्थः समर्थः सा खलु पृथिवी इत इष्टतरिका चैव यावद् मन आमतरिका चैव आस्वादेन प्रज्ञप्ता । तेषां खलु भदन्त ! पुष्पफलानां कीदृशक आस्वादः प्रज्ञप्तः तद्यथा नामक राज्ञश्चातुरन्तचक्रवतिनः कल्याणं भोजनजातं शतसहस्र निष्पन्न वर्णेनोपेतं यावत् स्पर्शेन उपेतम् आस्वा दनीयं विस्वादनीयं दीपनीयं दर्पनीयं मदनोयं बृंहणीयं सर्वेन्द्रियगात्रप्रह्लादनीयम्, भवेत् एतद्रूपः ? गौतम ! नायमर्थः समर्थः तेषां खलु पुष्पफलानाम् इत इष्टतरकश्चैव यावत् आ
स्वादः प्रज्ञप्तः ॥ सू०२५ ॥
३२
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર