SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका द्वि० वक्षस्कार सू. २३ कल्पवृक्षस्वरूप निरूपणम् २०९ विरागसमये सन्ध्यैव विरागः विगतो रागः सूर्यस्यारुणिमा यत्र स विरागः स चासौ समयः सन्ध्याविरागसमयस्तस्मिन् तथा सूर्यरागरहितं संध्यासमये अंधकारारम्भकाले नवनिधिपतेः नव-नव संख्यकाश्च ते निधयः नैस १, पाण्डुक २, पिङ्गलक ३, सर्वरत्न ४, महापद्म ५, काल ६, महाकाल ७, माणवक ८, शङ्खाः तेषां पतिः-स्वामीनवनिधिपतिः--चक्रवर्ति तस्य नवनिधिपते: दीपिकाचक्रवालवृन्दं- दीपिका:-लघु दीपाः, तासां चक्रवालं-गोलाकारः दीपिका चक्रवालं तदेव वृन्दं, तत् कीदृशम् ? इत्याह प्रभूतवति पर्याप्तस्नेहं-प्रभूताः-प्रचुराः स्थूला वर्तिकाः दशा यस्य तत् प्रभूतवति तच्च तत् पर्याप्तस्नेह- पर्याप्तः-परिपूर्णाः स्नेहः तैलादि-लक्षणो यस्य तत् तथा. तथा घनोज्ज्वलितं धनम्-अत्यथै -निरन्तरम् उज्ज्वलितं-प्रकाशितम्, अतएव तिमिरमईकम्अन्धकारनाशकम्, पुनस्तत् कीदृशम् इत्याह-कनकनिकरकुसुमितपारिजातकवनप्रकाश तत्र कनकनिकरः-स्वर्णपुजः कुसुमितपारिजातकवनं कुसुमितं-पुष्पितं यत् पारिजातकवनं कल्पवृक्षविशेषवनं चेति कुसुमितपारिजातकवनम् अनयोः समाहारद्वन्द्वे कनकनिकरकुसुमितपारिजातकवनं तद्वत्प्रकाशो यस्य तत् तथा, तथा-काश्चनमणि रत्न विमल महार्हतपनीयोज्ज्वलविचित्रदण्डाभिः-तत्र काञ्चनं-स्वर्ण मणिः वैडूर्यादिः, रत्नं बज्रादि चेति काश्चमणिरत्नानि तन्मयाः विमलाः स्वाभाविकागन्तुकमलरहिताः महार्हा:-बहुमूल्या तपनीयोज्ज्वलाः तपनीयेन-उत्तमजातीयस्वर्णेन उज्ज्वला:-भास्वराः, विचित्रा:-विचित्रवर्णाः दण्डाः-दीपिकाधारयष्टयो यासां ताभिः, तथा सहसा प्रज्वालितोत्सर्पित स्निग्धतेजोदीप्यमानविमलग्रहगणसमप्रभाभिः सहसा:-एककालेन प्रज्वालिता:-प्रदीपिताः उत्सर्पिताः-एककालेन वय॒त्सर्पणत उर्वीकृताः, स्निग्धतेजसः स्निग्धं-नयनसुखदं तेजो यासां ताः नेत्राप्रतीघातकतेजोयुक्ता इत्यर्थः, दीप्यमानविमलग्रहगणसमप्रभाःदीप्यमानः-निशि स्फुरन् विमल:-धूल्यायभावेन स्वच्छो यो ग्रहगण-ग्रहसमूहः तेन समा-समाना प्रभा-दीप्तिर्यासां ताः एतेषां पदानां कर्मधारये सहसा प्रज्वालितोत्सपितस्निग्धतेजोदीप्यमानविमलग्रहगणसमप्रभास्ताभिः, तथा-वितिमिरकरसरप्रसृतोद द्योतदीप्यमानाभिः-वितिमिरकरः-विगतं तिमिरमन्धकारं यस्मिन् सति स वितिमिरः तादृशः करः-किरणो यस्य स वितिमिरकरः,-अथवा वितिमिरम्-अन्धकाराभावः तस्यकरः कारको वितिमिरकरः स चासौ सुरः सूर्यश्चति वितिमिरकरसूरः तस्य यः प्रसृतःदिशि दिशि व्याप्तः उधोत:-प्रभासमूहः तद्वत् दीप्यमानाः प्रकाशमानास्ताभिः, तथा ज्वालोज्ज्वलाहसिताभिरामाभिः ज्वालाः शिखाएव उज्ज्वलप्रहसितं स्वच्छहासः, तेनाभिरामाः मनोहरास्ताभिः, एतादृशीभिदीपिकाभिः शोभमानं भवति, तथैव ते दीपयुक्त होते हैं अतः द्वोपो को जो कार्य होता है उसके ये सम्पादक होते हैं. नौ निधियों के ये नाम हैं- नैसर्प १, पाण्डक २, पिंगलक ३, सर्वरत्न ४, महापद्म ५, काल ६, महाकाल ७, છે. એથી દ્વીપના જે કાર્ય હોય છે તેમના એ સમ્પાદક હોય છે. નવ નિધિએાના નામ આ પ્રમાણે છે. નૈસપ ૧ પાંડ ૨ પિંગલ ૩ સર્વ રત્ન ૪ મહાપદ્મ ૫ કાલ ૬ મહાકાલ २७ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy