SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका सू. २१ कालस्वरूपम् डाकोडो बायालीसाए वाससहस्सेहिं ऊणिओ कालो दुस्समसुसमा ४ एकवीसं वाससहस्साई कालो दुस्समा ५ एकवीसं वाससहस्साई काला दुस्समदुस्समा ६ पुणेरवि उस्सप्पिणीए एकवीसं वाससहस्साई कालो दुस्समदुस्समा १ एवं पडिलोमं णेयव् जाव चत्तोरि सागरोवम कोडाकोडीओ कालो सुसमसुसमा ६ दस सागरोवमकोडा कोडीआ कालो ओसप्पिणि दस सागरोपवमकोडाकोडोओ कालो उस्सप्पिणी । वीसं सागरोवमकोडाकोडीओ कालो ओसप्पिणी उस्सप्पिणी ॥सूत्र २१॥ छाया--अथ किं तदौंपमिकम् ? औपमिकं, उपमितं द्विविधं प्राप्तम् तद्यथा-पल्योपमं च सागरोपमं चं, अथ कि तत् पल्योपम १, पल्योपमस्य प्ररूपणां करिष्यामि, परमाणु द्विविधः प्रज्ञप्तः तद्यथा सूक्ष्मश्च व्यावहारिकश्च, तत्र खलु यः सः सूक्ष्मः, स स्थाप्यः, तत्र खलु यः स व्यावहारिकः स खलु अनन्तानां सूक्ष्मपरमाणुपुद्गलानां समुदयसमितिसमागमेन व्यावहारिकः परमाणु निष्पद्यते, तत्र नो शस्त्रं क्रामति शस्त्रेण सुतीक्ष्णेनापि छेत्तु मेत्तु च य किल न शक्ताः । तं परमाणु सिद्धा वदन्ति आदि प्रमाणानाम् ॥ १ ॥ ब्यावहारिक परमाणूनां समुदयसमितिसमागमेन सा एका उच्छलक्षणलक्ष्णिका इति वा प्रलक्ष्णप्रलक्ष्णिका इति वा ऊर्ध्वरेणुरिति वा त्रसरेणुरिति वा रथरेणुरिति वा वालाग्रमिति वा लिक्षा इति वा यूका इति वा यवमध्यमिति वा उत्सेधाङ्गुलमिति वा अष्ट उच्छ्लक्ष्ण श्लक्ष्णिकाः सा एका श्लक्ष्णश्लक्ष्णिका, अष्टलक्ष्णश्लक्ष्णिकाः सा एका ऊर्ध्वरेणुः अष्ट ऊर्ध्वरेणवः सा एका त्रसरेणुः, अष्ट त्रसरेणवः सा एका रथरेणुः, अष्ट रथरेणवः तदेकं देवकुरूत्तरकुरूणां मनुष्याणां वालाग्रम्, अष्ट देव कुरुत्तरकुरूणां मनुष्याणां वालाग्राणि तदेक हरिवर्षरम्यकवर्षाणां मनुष्याणां वालाग्रम्, एवं हैमवत हैरण्यवतानां मनुष्याणां पूर्वविदेहापरविदेहाणां मनुष्याणां वालाग्राणि सा एका लिक्षा, अष्ट लिक्षाः सा एका यूका, अष्ट यूकाः तदेकं यवमध्यम्, अष्ट यवमध्यानि तदेकमगुलम्, एतेनागुलप्रमाणेन षडङ्गुलानि पादः, द्वादशाइगुलानि वितस्तिः, चतुर्विशतिरङ्गुलानि रत्निः, अष्ट चत्वारिंशदगुलानि कुक्षिः, पण्णवतिरगुलानि स एकोऽक्षइति वा दण्डइतिवा धनुरिति वा युगमिति वा मुशलमिति वा नालिका इतिवा । एतेन धनुष्प्रमाणेन द्वे धनुः सहस्रे गव्यूतं, चत्वारि गब्यूतानि योजनम्। एतेन योजनप्रमाणेन यः पल्यः योजनमायामविष्कम्भेण योजनमूर्ध्वमुच्चत्वेन तत् त्रिगुण सविशेष परिक्षेपेण, स खलु पल्यः ऐकाहिक द्वैयहिक त्रैयहिकोणाम् उत्कर्षेण सप्तरात्रप्ररूढानां समृष्टः सन्निचितः भृतः वालाग्रकोटीनाम् । तानि खलु बालाग्राणि नो कुथ्येयुः नो परिविध्वंसेरन्, नो अग्निदहेत् नो वातो हरेत्, नो पूतितया शीघ्रमागच्छेयुः, ततः જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy