SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका सू० १६ दक्षिणार्द्ध भरतकूट निरूपणम् असंखेज्जे दीवसमुद्दे वीईवइत्ता अण्णंमि जंबुद्दीव दीवे वारसजोयण सहस्साई ओगाहित्ता, एत्थ णं रायहोणीओ भाणियव्वाओ विजयराय हाणी सरिसयाओ |सू० १६ ॥ ११९ छया - क खलु भदन्त ! वैताढ्यपर्वते दक्षिणार्द्ध भरतकूट नाम कूटं गौतम ! खंड प्रपातकूटस्य पौरस्त्येन सिद्धायतनकूटस्य पाश्चात्येन अत्र खलु वैताढ्यपर्वते दक्षिणार्द्धभरतकूटं नाम कूटं प्रज्ञप्तम्, सिद्धायतनकूट प्रमाणसदृशं यावत् तस्य खलु बहुसमरम णीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र स्खलु महानेकः प्रासादावतंसकः प्रज्ञप्तः, क्रोशमूर्ध्वमुच्चत्वेन अर्द्धकोशं विष्कम्भेण' अभ्युद्तोच्छितप्रहसितो यावत् प्रासादीयः ४ । तस्य खलु प्रासादावतंसकस्य बहुमध्यदेशभागे अत्र खलु महती एका मणिपीठिका प्रज्ञप्ता पञ्चधनुःशतानि आयामविष्कम्भेण अर्धतृतीयानि धनुःशतानि बाहल्येन सर्वमणिमयो तस्याः खलु मणिपीठिकाया उपरि सिंहासनं प्रज्ञप्तम् सपरिवारं भणितव्यम् । तत् केनार्थेन भदन्त ! एव मुच्यते दक्षिणाई भरतकूटं दक्षिणाईभरतकूटम् १ गौतम ! दक्षिणार्द्धभर टेकू खलु दक्षिणार्द्ध भरतो नाम देवो महद्धिको यावत् पल्योपमस्थितिकः परिवसति स खलु तत्र चतसृणां सामानिकसाहस्रोणां, चतसृणाम् अग्रमहिषीणां सपरिवाराणां तिसृणां परिषदां, सप्तानामनीकानां, सप्तानामनीकाधिपतीनां षोडशानामात्मरक्षकदेव साहस्त्रीणां दक्षिणार्द्ध भरतकूटस्य दक्षिणार्द्धायां राजधान्याम अन्येषां बहूनां देवानां च देवीनां च यावत् विहरति । क खलु भदन्त । दक्षिणार्द्ध भरतस्य देवस्य दक्षिणार्द्धा नाम राजधानो प्रज्ञता ? गौतम ! मन्दरस्य पर्वतस्य दक्षिणेन तिर्यगसंख्येयद्वीपसमुद्रान् व्यतिव्रज्य अन्यस्मिन् जम्बूद्वीपे द्वीपे दक्षिणेन द्वादश योजन सहस्राणि अवगाह्य अत्र खलु दक्षिर्द्धभरतस्य देवस्य दक्षिणार्द्धा नाम राजधानी भणितव्या यथा विजयस्य देवस्य । एवं सर्वकूटानि नेतव्यानि यावत् वैतश्रवणकूटम् परस्परं पोरस्त्यपश्चिमेन । एषां बर्णावासे गाथा मध्ये वैतादयस्य तु कनकमयानि त्रीणि भवन्ति कूटानि तु. शेषाणि पर्वतकूटानि सर्वाणि रत्नमयानि भवन्ति ॥ १ ॥ माणिभद्रकूटं १ वैताढ्यकूटं २ पूर्णभद्रकूटं ३ एतानि त्रीणि कूटानि कनकमयानि, शेषाणि षडपि रत्नमयानि, । द्वयोः विसदृश नामकौ देवौ कृतमालकश्चैव १ नृत्तमालकश्चैव २ शेषाणां षण्णां सदृशनामकाः य नामकानि च कूटानि तन्नामानः खलु भवन्ति ते देवाः । पल्योपस्थितिका भवन्ति प्रत्येकं प्रत्येकम् १ राजधान्यो जम्बूद्वीपे द्वीपे मन्दस्य पर्वतस्य दक्षिणेन तिर्यगसंख्येयद्वीपसमुद्रान् व्यतिव्रज्य अन्यस्मिन् जम्बूद्वीपे द्वीपे द्वादश योजन सहत्रणि अवगाह्य, अत्र खलु राजधान्यो भणितव्याः विजयाराजराजधानी सहशिका ॥ सू१६॥ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy