SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ १०८ ____ जम्बूद्वीपप्रज्ञप्तिसूत्रे उच्चत्तेणं सव्वरयणामए । एत्थणं अट्ठसयं जिणपडिमाणं जिणुस्सेहप्पमाणमित्ताणं संनिखित्तं चिट्ठइ एवं जाव धूवकडुच्छगा ॥सूत्र० १५॥ छाया-क खलु भदन्त ! जम्बूद्वीपे द्वीपे भारते वर्षे वैताठ्यपर्वते सिद्धायतनकूटं नाम कूट प्रज्ञप्तम् ? गौतम। पौरस्त्यलवणसमुद्रस्य पश्चिमेन दक्षिणार्द्धभरतकूटस्य पौरस्त्येन अत्र खलु जम्बूद्वीपे द्वीपे भारते वर्षे बैताढये पर्वते सिद्धायतनकूट नाम कूटं प्रज्ञप्तम्, षट् सकोशानि योजनानि उर्ध्वमुच्चत्वेन, मूले पट् सक्रोशानि योजनानि विष्कम्भेण मध्ये देशोनानि पञ्च योजनानि विष्कम्भेण, उपरि सातिरेकाणि त्रीणि योजनानि विष्कम्भेण, मूले देशोनानि द्वाविशति योजनानि परिक्षेपेण, मध्ये देशोनानि पञ्चदश योजनानि परिक्षेपेण, उपरि सातिरेकाणि नव योजनानि परिक्षेपेण मूले विस्तोण मध्ये संक्षिप्तम् उपरि तनुकं गोपुच्छसंस्थानसंस्थितं, सर्वरत्नमयम् अच्छे लक्षणं यावत् प्रतिरूपम् । तत् खलु एकया पद्मवरवेदिकया एकेन च वनषण्डेन सर्वतः समन्तात् संपरिक्षिप्तम्, प्रमाण वर्णको द्वयोरपि ! सिद्धायतनकूटस्य खलु उपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, स यथा नामकः अलिङ्गपुष्कर इति वा यावद् व्यन्तरा देवश्च यावद् विहरन्ति । तस्य खलु बहुसमरमणीयस्थ भूभिभागस्य बहुमध्यदेशभागे अत्र खलु महदेकं सिद्धायतनं प्रज्ञप्तम्, क्रोशमायामेन अद्धकोश विष्कम्भेण देशोन कोशमूर्ध्वमूच्चत्वेन; अनेक स्तम्भ शतसन्निविष्टं स्तम्भोगतकृतवज्रवेकातोरणवररचितशालभञ्जिकाक सुश्लिष्टविशिष्ट लष्ट संस्थित प्रशस्तवैयविमलस्तम्भं नानामणिकनकरत्नखचितोज्ज्वलबहसमसुविभक्तभूमिभागम् ई हामृगवृषभतुरग नरमकरविहगव्यालक किन्नर रुरु सरभ चमरकुञ्जरवनलता यावत् पद्मलता भक्तिचित्रं काञ्चनमणि रत्न स्तूपिकाकं नानाविध पञ्च० वर्णकः घण्टापताका परिमण्डितामशिखर धवलं मरीचिकवचं विनिमुञ्चत् लायितोल्लायितमहितं यावत् ध्वजा । तस्य खलु सिद्धायतनस्य त्रिदिशि त्रीणि द्वाराणि प्रज्ञप्तानि; तानि खलु द्वाराणि पञ्चधनुःशतानि ऊर्ध्वमुच्चत्त्वेन , अर्धतृतीयानि धनुःशतानि विष्कम्मेण, तावदेब प्रवेशेन श्वेतवरकनक स्तूपिकाकं द्वारवर्णको यावद् वनलता। तस्य खलु सिद्धायतनस्य अन्तः बहुसमरणीयो भूमिभागः प्रशप्तः, स यथानामकः अलिङ्गपुष्कर इति वा यावत् तस्य खल सिद्धायतनस्य खलु बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र खलु महानेको देवच्छन्दकः प्रज्ञप्तः पञ्च धनुः शतानि आयामविष्कम्भेण सातिरेकाणि पञ्चधनुः शतानि उर्ध्वमुच्चत्वेन सर्वरत्नमयः अत्र खलु अष्टशत जिनप्रतिमानां जिनोत्सेधप्रमाणमात्राणां संनिक्षिप्त तिष्ठति, एवं यावत् धूपकटुच्छुका ॥सू० १५ ॥ टीका--'कहि णं भंते !' इत्यादि। 'कहि णं भंते ! जंबुद्दीवे दीवे भारहे वासे वेयडूढपव्वए सिद्धायययणकूडे पण्णत्ते हे भदन्त ! जम्बूद्वीपे द्वीपे भारते वर्षे वैताढ्यपर्वते-मध्य जम्बूदीपान्तर्वति भरत જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy