SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टोका प्रा०१-६सू०१२ सूर्यस्य द्वितीयषण्मासाहोरात्रे क्षेत्रसंचरणम् ७७ मण्डलं तत् 'उवसंकमित्ता चारं चरइ' उपसंक्रम्य चारं चरति 'तया णं' तदा खलु 'दो जोयणाई द्वे योजने 'अडयालीसं च एगसहिभागे' अष्टचत्वारिंशतं च एकषष्टिभागान् 'जोयणस्स' योजनस्य 'एगेणं राइदिएणं' एकेन रात्रिन्दिवेन 'विकंपइत्ता' विकम्प्य 'चारं चरइ' चारं चरति, 'तया णं' तदा खलु 'अट्ठारसमुहुत्ता राई भवई' अष्टादशमुहूर्ता रात्रिर्भवति, किन्तु सा 'दोहिं एगसट्ठिभागमुहुत्तेहि' द्वाभ्यामेकषष्टिभागमुहूर्ताभ्याम् 'ऊणा' ऊना हीना भवति, तथा 'दुवालसमुहुत्ते दिवसे भवई' द्वादशमुहूर्तो दिवसो भवति, स च 'दोहिं एगसहिभागमुहुत्तेहि' द्वाभ्यामेकषष्टिभागमुहूर्त्ताभ्याम् 'अहिए' अधिको भवति । 'से' सः 'पविसमाणे' प्रविशन् सर्वाभ्यन्तरमण्डलं प्रति गच्छन् 'सरिए' सूर्य: 'दोच्चंसि' अहोरत्तंसि' द्वितीयस्य षण्मासस्य द्वितीयेऽहोरात्रे 'बाहिरं तच्चं' बाह्य तृतीयं बाह्यभागाद् गमनसम्बन्धित्त्वाद् बाह्यं सर्वबाह्यमण्डलादभ्यन्तरं तृतीयं 'मंडलं' मण्डलम् 'उवसंकमित्ता चारं चरइ' उपसंक्रम्य चार चरति । 'ता' तावत् 'जया णं' यदा खलु 'सूरिए' सूर्यः 'बाहिरं तच्चं' बाह्यं तृतीयं बाह्यात् तृतीयं वा 'मंडलं' मण्डलम् ‘उवसंकमित्ता' उपसंक्रम्य 'चारं चहइ' चारं चरति 'तया णं' तदा खलु 'पंच जोय. णाई' पश्च योजनानि 'पणतीसं च एगसट्ठिभागे जोयणस्स' पञ्चत्रिंशतं च एकषष्टिभागान् योजनस्य 'दोहिं राइदिएहिं' द्वाभ्यां रात्रिन्दिवाभ्यां 'विकंपइत्ता' विकम्प्य 'चारं चरई' चारं चरति, 'तया णं' तदा खलु 'अट्ठारसमुहुत्ता राई भवई' अष्टादशमुहर्ता रात्रिर्भवति किन्तु सा 'चउहिं एगसहिभागमुहुत्तेहि' चतुभिरेकषष्टिभागमुहूर्तेः 'ऊणा' ऊना होना भवति, तथा 'दुवालसमुहुत्ते दिवसे भवई' द्वादशमुहूर्तो दिवसो भवति, सच 'चउहिं एगद्विभागमुहुत्तेहि' चतुभिरेकषष्टिभागमुहूर्तेः 'अहिए' अधिको भवति । 'एवं' एवम्-अनेन प्रकारेण खलु 'एएणं' एतेन पूर्वप्रदर्शितेन 'उवाएण' उपायेन विधिना 'पविसमाणे' प्रविशन् सर्वाभ्यन्तरमण्डलाभिमुखं गच्छन् 'मूरिए' सूर्यः 'तयाणंतराओ मंडलाओ' तदनन्तरात् यत्र सूर्यों वर्तते तस्मात मण्डलात् 'तयाणंतरं मंडलं' तदनन्तरं तदने स्थितं मण्डलं 'संकममाणे २' संक्रामन् २ 'दो जोयणाई वे योजने 'अडयालीसं च एगसद्विभागे जोयणस्स' अष्टचत्वारिंशतं च एकषष्टिभागान् योजनस्य 'एगमेगेणं राइंदिएणं' एकैकेन रात्रिन्दिवेन अहोरात्रेण 'विकंपमाणे २' विकम्पमानः २ 'सम्वन्भंतरं मंडलं' सर्वाभ्यिन्तरं मण्डलम् 'उवसंकमित्ता' उपसंक्रम्य 'चारं चरई' चारं चरति । 'ता' तावत् 'जया णं' यदा खलु 'रिए' सूर्यः 'सव्वबाहिराओ मंडलाओ' सर्वबाह्यात् मण्डलात् 'सव्वभंतरं मंडलं' सर्वाभ्यन्तरं मण्डलम् ‘उवसंकमित्ता चारं चरइ' उपसंक्रम्य चारं चरति 'तया णं' तदा खलु 'सव्वबाहिरं मंडलं' सर्वबाह्यं मण्डलं 'पणिहाय' प्रणिधाय अवधीकृत्य तत आरभ्येत्यर्थः 'एगेणं तेसीएणं राइंदियसएणं' एकेन त्र्यशीतिकेन रात्रिन्दिवशतेन व्यशीत्यधिकशतसंख्यकैः रात्रिन्दिवैः 'पंचदमुत्तरे जोयणसए' पंचद
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy