SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्तिप्रकाशिका टोका प्रा० १-६सू११ सूर्यस्य प्रथमषण्मासाहोरात्रे क्षेत्रसंचरणम् ७५ राई जोयणसयाई' पञ्चदशोत्तराणि योजनशतानि दशोत्तराणि पञ्चशतयोजनानि (५१०) 'विकंपइत्ता' विकम्प्य 'चारं चरई' चारं चरति । कथमेतदुपलभ्यते ? इति प्रदर्शयाम :- एककस्मिन् रात्रिदिवे द्वे द्वे योजने तदुपर्यष्टचत्वारिंशद् एकषष्टिभागा योजनस्येत्येतत्प्रमाणं क्षेत्र सूर्यश्चलति तत्र पूर्वं योजनद्वयं त्र्यशीत्यधिकेन शतेन गुण्यते, जातानि षट्षष्ट्यधिक त्रीणि शतानि (३६६) तत्पश्चादष्टचत्वारिंशदे कषष्टिभागाः त्र्यशीत्यधिकेन शतेन गुण्यन्ते, जातास्ते चतुरशीत्यधिक सप्ताशीतिशत (८७८४) संख्यकाः । एषा संख्या योजनानयनार्थमेकषष्ट्या विभज्यते, लब्धं चतुश्चत्वारिंशदधिकं शतमेकम् (१४४) । एषा संख्या पूर्व या योजनसंख्या (३६६) जाता तस्यां प्रक्षिप्यते, ततो जातानि दशोत्तराणि पञ्चशतानि ( ५१० ) इति । एतावत्प्रमाणं क्षेत्रं सूर्यो विकम्प्य चारं चरति 'तया णं' तदा खलु 'उत्तमकट्टपत्ता' उत्तमका"ठाप्राप्ता परमप्रकर्षसंपन्ना 'उक्कोसिया' उत्कर्षिका सर्वोत्कृष्टा सर्वगुर्वीत्यर्थः 'अट्ठारस - मुहुत्ता' अष्टादशमुहूर्त्ता 'राई भवः' रात्रिर्भवति, तथा 'जहण्णए ' जघन्यकः सर्वलघुः 'दुवासलमुहुत्ते' द्वादशमुहूर्त्तः 'दिवसे भवः' दिवसो भवति । अथ प्रथमषण्मासस्य उपसंहारमाह'एस णं' एतत् खलु 'पढमे छम्मासे' प्रथमं षण्मासम् - 'एस णं' एतत् खलु 'पढमस्स छम्मासस्स' प्रथमस्य षण्मासस्य 'पज्जवसाणे' पर्यवसानम् - अन्तिममहोरात्रम् ॥ सू० ११॥ पूर्व प्रथमषण्मासपर्यन्त भूताहो रात्रिपर्यन्ते सर्व बाह्य मण्डलगत योजनाष्टचत्वारिंशदे कषष्टिभागयुक्तयोजनद्वयमतिक्रम्य सूर्यः सर्व बाह्यानन्तरद्वितीयमण्डलसीमायां वर्त्तते इति प्रदर्शितम्, साम्प्रतं ततो द्वितीयस्य षण्मासस्य अनन्तरे प्रथमेऽहोरात्रे प्रथमक्षणे सर्वबाह्यानन्तरमभ्यन्तरं द्वितीयं मण्डलं सूर्यः प्रविशतीति प्रदर्शयन्नाह - ' से पविसमाणे' इत्यादि । मूलम् - से पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पढ़मंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरः । ता जया णं सूरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ तयाणं दो जोयणाई अडयालीसं च एगसट्ठिमागे जोयणस्स एगेणं राईदिएणं विकंपइत्ता चारं चरह तया णं अट्ठारसमुहुत्ता राई भवई, दोहिं एगसट्टिभागमुहुत्तेर्हि ऊणा, दुवालसमुहुत्ते दिवसे भवइ दोहिं एगसट्टिभागमुहुत्तेहिं अहिए, से परिमाणे सूरिए दोच्चंसि अहोरत्तंसि बाहिरं तच्चं मंडल उवसंकमित्ता चारं चर । ता जया णं सरिए बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरइ तयाणं पंचजोयणाई पणतीसं च एगसद्विभागे जोयणस्स दोहिं राईदिएहिं विकंपइत्ता २ चारं चरइ तया णं अट्ठारसमुहुत्ता राई भवइ चउहिं एगसद्विभागमुहुत्तेर्हि ऊणा, दुवालसमुहुत्ते दिवसे भवइ चउहिं एगसद्विभागमुहुत्तर्हि अहिए एवं खलु एएणं उवाएणं परिमाणे सूरिए
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy