SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ७४ चन्द्रप्रक्षप्तिसूत्रे रात्रिन्दिवेन एकाहोरात्रेण 'विकंपइत्ता २' विकम्प्य २ उल्लङध्य २ 'चारं चरई' चार चरति 'तया णं' तदा खलु 'अद्वारसमुहुत्ते दिवसे भवई' अष्टादशमुहूर्तो दिवसो भवति किन्तु सः 'दोहिं एगसद्विभागमुहुत्तेहिं' द्वाभ्यामेकषष्टिभागमुहूर्त्ताभ्यां 'ऊणे' ऊनः हीनो भवति न तु परिपूर्णाऽष्टादशमुहूत्र्तो भवति, तथा 'दुवालसमुहुत्ता राई भवई' द्वादशमुहूर्ता रात्रिर्भवति सा च 'दोहिं एगद्विभागमुहुत्तेहिं' द्वाभ्यामेकषष्टिभागमुहूर्ताभ्यां 'अहिया' अधिका भवति यावन्मात्रा दिवसस्य हानिर्भवति तावन्मात्राया रात्रेवृद्धिसद्भावात् । ‘से निक्खममाणे सूरिए' स निष्क्रामन् सूर्यः 'दोच्चंसि अहोरत्तंसि' द्वितीयेऽहोरात्रे 'अभितरं' अभ्यन्तरम् अभ्य न्तरसम्बन्धिनं 'तच्चं मंडलं' तृतीयं मण्डलं 'उवसंकमित्ता' उपसंक्रम्य 'चारं चरई' चारं चरति । 'ता' तावत् 'जया णं' यदा खलु 'सुरिए' सूर्यः 'अभितरं' अभ्यन्तरम् अभ्यन्तरगतं 'तच्चं मंडलं' तृतीयं मण्डलम् 'उवसंकमित्ता' उपसंक्रम्य 'चारं चरइ' चारं चरति । 'तया गं' तदा खल 'पंच जोयणाई' पंच योजनानि 'पणतीसं च एगसहिभागे' पञ्चत्रिंशतं च एकषष्टिभागान् योजनस्य 'दोहिं राइदिएहि' द्वाभ्यां रात्रिन्दिवाभ्याम् अहोरात्रद्वयेन 'विकंपइत्ता' विकम्प्य २ 'चारं चरइ' चारं चरति 'तया णं' तदा खलु 'अट्ठारसमुहुत्ते दिवसे भवई' अष्टादशमुहूत्र्तो दिवसो भवति किन्तु सः 'चउहिं एगसहिभागमुहुत्तेहिं' चतुर्भिरेकषष्टिभागमुहतैः 'ऊणे' ऊनः हीनो भवति, तथा 'दुवालसमुहुत्ता राई भवइ' द्वादशमुहूर्ता रात्रिर्भवति, सा च 'चउहिं एगसट्ठिभागमुहुत्तेहिं' चतुभिरेकषष्टिभागमुहूर्तः 'अहिया' अधिका भवति, दिवसहान्यां रात्रेराधिक्यस्य स्वभावात् । अग्रेऽतिदेशेनाह-एवं इत्यादि ‘एवं' एवम्-अनया रीत्या खलु 'एएणं' एतेन पूर्वोक्तेन 'उवाएणं' उपायेन विधिना 'णिक्खममाणे सूरिए' निष्क्रामन् सूर्यः 'तयाणंतराओ मंडलाओ' तदनन्तरात् तृयीयादेर्मण्डलात् 'तयाणंतरं मंडलं' तदनन्तरं चतुर्थादिकं मण्डलम् यत्र सूर्यः स्थितस्ततोऽग्रेऽप्रेतनं मण्डलं 'संकममाणे २' संक्रामन् २ चलन् चलन् 'दो जोयणाई' द्वे योजने 'अडयालीसं च एगसद्विभागे' अष्टचत्वारिंशतं च एक षष्टिभागान् 'जोयणस्स' योजनस्य 'एगमेगं मंडलं' एकैकं मण्डलम् 'एगमेगेणं राइदिएणं' एकैकेन रात्रिन्दिवेन 'विकंपमाणे २' विकम्पमानः २ स्पर्शन् स्पर्शन् प्रथमषण्मासस्य अन्तिमे ज्यशीत्यधिकशततमेऽहोरात्रे 'सव्वबाहिरं मंडलं' सर्वबाह्यं मण्डलम् 'उवसंकमित्ता चारं चरई' उपसंक्रम्य चारं चरति । 'ता' तावत् 'जया गं' यदा खलु 'सूरिए' सूर्यः 'सबभंतराओ मंडलाओ' सर्वाभ्यन्तरात् मण्डलात् 'सव्वबाहिरं मंडलं' सर्वबाह्यं मण्डलम् 'उवसंकमित्ता चारं चरइ' उपसंक्रम्य चार चरति 'तया गं' तदा खलु 'सव्वभंतरं मंडलं' सर्वाभ्यन्तरं मण्डलं 'पणिहाय' प्रणिधाय अवधीकृत्य तत आरभ्येत्यर्थः 'एगेणं तेसीएणं राइंदियसएणं' एकेन ज्यशीत्यधिकेन रात्रिंदिवशतेन त्र्यशीत्यधिकैकशत (१८३) संख्यकैः अहोरात्रैः 'पंचदमुत्त
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy