SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा.१-६ सू०११ सूर्यस्य प्रथमषण्मासाहोरात्रे क्षेत्रसंचरणम् ७३ न्दिवेन 'विकंपइत्ता २' विकम्प्य २ 'मूरिए चारं चरइ' सूर्यः चारं चरति, 'एगे एवमाहंसु' एके केचन सप्तमाः एवं पूर्वोक्तप्रकारेण आहुः कथयन्ति । इति सप्तमा प्रतिपत्तिः ७ पूर्व परमतवादिनां सप्तप्रतिपत्तीः प्रदर्य साम्प्रतं भगवान् स्वमतं प्ररूपयति-'वयं पुण' इत्यादि । 'वयं पुण' वयं पुनः पूर्वपूर्वतीर्थकरानुद्दिश्य वयं पुनः एवं वक्ष्यमाणप्रकारेण 'वयामो' वदामः केवलालोकेनाऽऽलोक्य कथयामः- 'ता' तावत् - 'दो जोयणाई' द्वे योजने 'अडयालीसं च एगसहिभागे' अष्टचत्वारिंशतश्च एकषष्टिभागान् [२-8'जोयणस्स' योजनस्य, अष्ट चत्वारिंशदेकषष्टिभागसहितयोजनद्वयपरिमितम् 'एगमेगं मंडलं' एकैकं मण्डलम् ‘एगमेगेणं राइंदिएणं' एकैकेन रात्रिन्दिवेन अहोरात्रेण 'विकंपइत्ता' २' विकम्प्य २ 'मूरिए चारं चरई' सूर्यः चारं चरति । सूर्य एकेन अहोरात्रेण द्वे योजने अष्टचत्वारिंशदेकषष्टिभागान् एकैकं मण्डलं स्पृष्ट्वा २ चारं चरतीति भावः । गौतमः पुनः पृच्छति-'तत्थ णं' त्त्र भवत्प्रतिपादितपूर्वोक्तविषये खलु 'को हेऊ' को हेतुः किं कारणं का तत्र व्यवस्थेत्यर्थः 'इति' इति-एवं तां व्यवस्थां 'वदेज्जा' वदेत् हे भगवन् ! कथयतु, इति प्रश्नः । भगवानाह-'ता अयण्णं' इत्यादि 'ता' तावत् 'अयणं' अयं खलु 'जंबुहीवे दीवे' जम्बूद्वीपो द्वीपः मध्यजम्बूद्वीपः पूर्वप्रतिपादितस्वरूपः पूर्वप्रदर्शितप्रमाणः 'परिक्खेवेणं' परिक्षेपेण परिधिना 'पण्णत्ते' प्रज्ञप्तः कथितः । तत्र 'ता' तावत् 'जया णं' यदा खलु 'सरिए' सूर्यः ‘सम्वन्भंतरं मंडलं' सर्वाभ्यन्तरं मण्डलम् 'उवसंकमित्ता चार चरइ' उपसंक्रम्य चारं चरति 'तया णं' तदा खलु 'उत्तमकट्टापत्ते' उत्तमकाष्ठाप्राप्तः परमप्रकर्षप्राप्तः सर्वथा वृद्धगतः 'उक्कोसए' उत्कर्षकः उत्कृष्टः अट्ठारसमुहुत्ते दिवसे भवई' अष्टादशमुहूत्तों दिवसो भवति, तथा 'जहण्णया' जघन्यिका सर्वलध्वी 'दुवालसमुहुत्ता राई भवइ' द्वादशमुहर्ता रात्रि र्भवतीति । 'ता' तावत् तत्पश्चात् 'से' सः 'निक्खममाणे सुरिए' निष्क्रामन् सूर्यः ‘णवं संवच्छरं अयमाणे' नवं संवत्सरमयन् प्राप्नुवन् 'पढमंसि अहोरत्तंसि' प्रथमेऽहोरात्रे 'अभंतराणंतरं' अभ्यन्तरानन्तरं सर्वाभ्यन्तरमण्डलानन्तरस्थितं 'मंडलं' द्वितीयं मण्डलं 'उवसंक मित्ता चारं चरइ' उपसंक्रम्य चारं चरति । 'ता' तावत् 'जया णं' यदा खलु 'मूरिए' सूर्यः 'अभितराणंतरं' अभ्यन्तरानन्तरं द्वितीयं सण्डलम् 'उवसंकमित्ता चारं चरई' उपसंक्रम्य चारं चरति 'तया णं' तदा खलु दो 'जोसणाई' द्वे योजने 'अडयालीसं च एगसट्ठिभागे' अष्टचत्वारिंशतं च एकषष्टिभागान् 'जोयणस्स' योजनस्य-[२-857 एगेणं राइदिएणं' एकेन
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy