SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा०१-५ सू०१० सूर्यस्य द्वीपसमुद्रावगाह निरूपणम् ६३ तिणि तीसंजोयणसयाई ओगाहित्ता चारं चरइ, तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ जहण्णए दुवालसमुहुत्ते दिवसे भवइ ।। सूत्र ।। १० “पढमस्स पाहुडस्स पंचमं पाहुडं समत्तं" १-५॥ छाया . तावत् कियत्कं ते द्वीपं वा समुद्रं वा अवगाह्य सूर्यः चारं चरति आख्यातमिति वदेत् ? । तत्र खलु इमाः पञ्च प्रतिपत्तयः प्राप्ताः, तद्यथा- एके एवमाहुः तावत् एकं योजनसहस्रम् एकं च त्रयस्त्रिशद् योजनशतं द्वीपं वा समुद्रं वा अवगाह्य सूर्यः चारं चरति, एके एवमाहुः १ । एके पुनरेवमाहुः-तावत् एकं योजनसहस्रम् एकं चतुस्त्रिंशद् योजनशतं द्वीपं वा समुद्र वा अवगाह्य सूर्यः चारं चरति एके एवमाहुः २। एके पुनरेवमाहुः तावत् एकं योजनसहस्रम्, एकं च पञ्चत्रिंशद् योजनशतं द्वीपं वा समुद्र वा अवगाह्य सूर्यः चारं चरति, एके एवमाहुः ३॥ एके पुनरेवमाहुः-तावत् अपार्द्ध द्वीपं वा समुद्र घा अवगाह्य सूर्यः चारं चरति, एके एवमाहुः-४॥ एके पुनरेवमाहुः-तावत् नो कञ्चित् द्वीपं वा समुद्र वा अवगाह्य सूर्यः चारं चरति, एके एवमाहुः ५। तत्र ये ते पवमाहुः तावत् एकं योजनसहस्रम्, एकं त्रयस्त्रिंशद् योजनशतं द्वीपं वा समुद्र वा अवगाह्य सूर्यः चारं चरति, ते एवमाहुः-यदा खलु सूर्यः सर्वाभ्यन्तरं मण्डलम् उपसंक्रम्य चारं चरति तदा खलु जम्बूद्वीपं द्वीपम् एकं योजनसहस्रम्, एकंच त्रयस्त्रिंशद् योजनशतम् अवगाह्य सूर्यः चारं चरति तदा खलु उत्तमकाष्ठाप्राप्तः उत्कर्षकः अष्टादशमुहूर्तों दिवसो भवति, जघन्यिका द्वादशमुहूर्ता रात्रिर्भवति । तावत्-यदा खलु सूर्यः सर्ववाह्यं मण्डम् उपसंक्रम्य चारं चरति तदा खलु लवणसमुद्रम् एकं योजनसहस्रम् एकं च त्रयस्त्रिंशद् योजनशतम् अवगाह चारं चरति तदा स्खलु उत्तमकाष्ठाप्राप्ता उत्कर्षिका अष्टादशमुहूर्ता रात्रिर्भवति, जघन्यकः द्वादशमुहूर्तों दिवसो भवति । एवं चतुस्त्रिंशद् योजनशतम् २। पञ्चत्रिंशत्यपि एवमेव भणितव्यम् ३॥ तत्र स्खलु ये ते एवमाहुः-तावतू अपार्च द्वीपं वा समुद्र वा अवगाह्य सूर्यः चारं चरति, ते एवमाहुः-यदा खलु सूर्यः सर्वा सर्वाभ्यन्तरं मण्डलम् उपसंक्रम्य चारं चरति तदा खलु अपार्द्ध जम्बूद्वीपं द्वीपम् अवगाह्य चारं चरति तदा खलु उत्तमकाष्ठाप्राप्तः उत्कर्षकः अष्टादशमुहूत्तों दिवसो भवति, जयन्यिका द्वादश मुहूर्ता रात्रिर्भवति । एवं सर्वबाह्येऽपि; नवरं अपार्द्ध लवणसमुद्रं । तदा खलु रात्रिन्दिवं तथैव ४। तत्र खलु ये ते एवमाहुः-तावत् नो किञ्चित् द्वीपं वा समुद्र वा अवगाह्य सूर्यः चारं चरति, ते एवमाहुः-तावत् यदा खलु सूर्यः सर्वाभ्यन्तरं मण्डलम् उपसंक्रम्य चारं चरति तदा स्खलु नो कञ्चित् जम्बूद्वीपम् द्वीपम् अवगाह्य सूर्यः चारं चरति तदा खलु उत्तमकाष्ठाप्राप्तः उत्कर्षकः अष्टादशमुहूत्र्तो दिवसो भवति, तथैव । एवं सर्वबाह्ये मण्डले, नवरं नो कञ्चित् लवणसमुद्रम् अवगाह्य चारं चरति । रात्रिन्दिवं तथैव एके एवमाहुः ५। वयं पुनरेवं वदामः तावत् यदा खलु सूर्यः सर्वाभ्यन्तरं मण्डलम् उपसंक्रम्य चारं चरति तदा खलु जम्बूद्वीपं द्वीपम् अशीतिः योजनशतं अवगाह्य चारं चरति, तदा स्खलु
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy