SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Annanoranmon Narainrarunmanna चन्द्रप्राप्तिसूत्रे उत्तमकाष्ठाप्राप्तः उत्कर्षक: अष्टादशमुहूर्तों दिवसो भवति, जघन्यिका द्वादशमुहूर्ता रात्रिर्भवति । तावत् यदा खल सूर्यः सर्वबाह्य मण्डलमुपसंक्रम्य चारं चरति तदा खल लवणसमुद्र त्रीणि त्रिंशद्योजनशतानि अवगाह्य चारं चरति तदा खल उत्तमकाष्ठाप्राप्ता उत्कर्षिका · अष्टादशमुहूर्ता रात्रिर्भवति, जघन्यकः द्वादशमुहूर्तो दिवसो भवति ॥सुत्र १०॥ प्रथमस्य प्राभृतस्य पञ्चमं प्राभृतपाभृतं समाप्तम् ॥१-५॥ व्याख्या-'ता' तावत् 'केवइयं' कियत्कं कियत्प्रमाणं 'ते' तव मते 'दीवं वा समुई वा' द्वीपं वा समुद्रं वा 'ओगाहित्ता' अवगाह्य उल्लङ्घय 'सूरिए' सूर्यः 'चारं चरई'-चारं चरति एतद्विषये 'आहितेति' किम् आख्यातम् ? इति 'वएज्जा' वदेत् वदतु हे भगवन् ! इति गौतमस्य प्रश्नानन्तरमेतद्विषये भगवान् प्रथमं परमतरूपाः पञ्च प्रतिपत्तीः सामान्यत उपदर्शयतिहे गौतम ! 'तत्थ' तत्र सूर्यस्य द्वीपसमुद्रावगाहविषये खलु 'इमाओ' इमाः अनुपदं वक्ष्यमाणाः 'पंच' पश्च पश्च संख्यकाः 'पडिवत्तीओ' प्रतिपत्तयः परतीर्थिकमान्यतारूपाः 'पण्णताओ' प्रज्ञप्ताः कथिताः । ताः काः १ इत्याह-'तं जहा' तद्यथा ता यथा-'एगे' एके केचन पश्चसु प्रथमाः परतीर्थिकाः 'एवमाइंसु' एवमाहुः एवं वक्ष्यमाणप्रकारेण आहुः कथयन्ति-'ता' तावत् प्रथमम् अन्यबहुवक्तव्यतासु प्रथमं श्रूयताम्-'एगं जोयणसहस्सं' एकं योजनसहस्रम् एकसहस्रयोजनानि 'एगं च तेत्तीसं जोयणसयं' एकं च त्रयस्त्रिंशत् योजनशतम् एकं शतं योजनानां तदुपरि त्रयस्त्रिंशच्च योजनानि त्रयस्त्रिंशदधिकैकशतोत्तरैकसहनं (११३३) योजनानीत्यर्थः, एतावत्प्रमाणं 'दीवं वा समुदं वा' द्वीपं वा समुद्रं वा 'ओगाहित्ता' अवगाह्य 'मूरिए' सूर्यः 'चारं चरई' चारं चरति, उपसंहरन्नाह-'एगे' एके केचन प्रथमाः परतीर्थिकाः 'एवं' एवं-पूर्वोक्तप्रकारेण 'आईसु' आहुः कथयन्तीति प्रथमा प्रतिपत्तिः १। अथ द्वितीयामाह-'एगे पुण' एके केचन प्रथमतोऽन्ये द्वितीयाः पुनः ‘एवमाहंसु' एवमाहुः वक्ष्यमाणप्रकारेण कथयन्ति-'ता' तावत् 'एग जोयणसहस्सं 'एगं चउतीसं जोयणसयं' एकं योजनसहसमेकं चतुर्विंशत् योजनशतं चतुस्त्रिंशदधिकैकशतोत्तरैकसहस्रं (११३४) योजानानि 'दीवं वा समुदं वा' द्वीपं वा समुद्रं वा 'ओगाहित्ता' अवगाह्य 'मूरिए' सूर्यः 'चारं चरइ' चारं चरति, उपसंहारमाह-'एगे एवमासु' एके पूर्वोक्ता द्वितीयाः एवं पूर्वोक्तप्रकारेण आहुः । इति द्वितीया प्रतिपत्तिः २। अथ तृतीयामाह-'एगे' एके केचन पूर्वोक्तद्वयादन्ये तृतीया परतीर्थिकाः 'एवमाहंसु' एवमाहुः वक्ष्यमाणप्रकारेण कथयन्ति–'ता' तावत् 'एगं जोयणसहस्सं एगं च पणतीसं जोयणसयं' एकं योजनसहस्रम् एकं च पञ्चत्रिंशद् योजनशतम्-पञ्चत्रिंशदधिकशतोत्तरकसहस्रं (११३५) योजनानि 'दीवं वा समुदं वा' द्वीपं वा समुद्रं वा 'ओगा
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy