SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा०१-४ सू०९ द्वितीयषण्मासे द्वयोः सूयर्योरान्तर्यम् ६१ अन्योन्यस्य 'अंतरं' अन्तरं व्यवधानं 'निव्वुढेमाणा २' निर्वर्धयन्तौ २' हापयन्तौ २ 'सव्वभतरं मंडलं' सर्वाभ्यन्तरं मण्डलम् 'उवसंकमित्ता चारं चरंति' उपसंक्रम्य चारं चरतः मण्डलान्मण्डलं गच्छत इति भावः । 'ता' तावत् 'जया णं' यदा खल 'एए दुवे सूरिया' एतौ द्वौ सूर्यो ‘एवंरीत्या' संचरन्तौ 'सव्वन्भंतरं मंडलं' सर्वाभ्यन्तरं मण्डलम् 'उवसंकमित्ता चारं चरंति' उपसंक्रम्य चारं चरतः 'तया णं' तदा खलु 'नवनवइं जोयणसहस्साई' नवनवतियोजनसहस्राणि छच्च' षट् 'चत्ताले चत्वारिंशत् 'जोयणसयाई' योजनशतानि चत्वारिंशदधिकानि षट् शतानि योजनानां च (९९६४०) 'अण्णमण्णस्स' अन्योन्यस्य अंतरं कटु' अन्तरं व्यवधानं कृत्वा 'चारं चरंति' चारं चरतः 'तया णं' तदा तस्मित् काले खलु 'उत्तमकट्टपत्ते' उत्तमकाष्ठाप्राप्तः परम प्रकर्षसंपन्नः 'उक्कोसए' उत्कर्षकः सर्वोत्कृष्टः ततः परमाधिक्याभावात् 'अट्ठारसमुहुत्ते दिवसे भवई' अष्टादशमुहतों दिवसो भवति, तथा 'जहणिया' जघन्यिका सर्वलध्वी ततः परं हीनत्वाभावात् 'दुवालसमुहुत्ता राई भवई' द्वादशमुहूर्ता रात्रिर्भवति । अयं भावः द्वयोः सूर्ययोः सर्वाभ्यन्तरमण्डलस्थितौ चत्वारिंशदधिकषट् शतोत्तरैनवनवतिसहस्रं योजन (९९६४०) संख्यकंसर्वजघन्यमन्तरं भवति तथा सर्वबाह्यमण्डलस्थितौ षष्टयधिकषट्शतोत्तरैकलक्षयोजन (१०.६६०) संख्यकं सर्वोत्कृष्टमन्तरं भवति। अत्र सर्वाभ्यन्तरमण्डलतः सर्वबाह्यमण्डलगमनार्थ निष्क्रमणकाले द्वयोः सूर्ययोरन्तरस्य वृद्धिः, सर्वबाह्यमण्डलतः सर्वाभ्यन्तरमण्डलगमनार्थ प्रवेशकाले च हानिर्भवतीति । उपसंहरन्नाह-'एस णं' इत्यादि । 'एस णं' एतत् पूर्वोक्तं खलु 'दोच्चे छम्मासे द्वितीयं षण्मासम् । 'एस णं' एतत् खलु 'दोच्चस्स छम्मासस्स' द्वितीयस्य षण्मासस्य 'पज्जवसाणे' पर्यवसानम् अन्तिममहोरात्रम् 'एस णं' एष खलु 'आइच्चे संवच्छरे' आदित्यः संवत्सरः षण्मासद्वयरूपो वर्त्तते । ‘एस णं' एतत् खलु 'आइच्च संवच्छरस्स' आदित्यसंवत्सरस्य 'पज्जवसाणे' पर्यवसानम्-अन्तभागः ॥सू० ९॥ ॥पथमस्य मूलमाभृतस्य चतुर्थ प्राभृतपाभृतं समाप्तम् ॥१-४ गतं प्रथमस्य मूलप्राभृतस्य चतुर्थ प्राभृतप्राभृतम् । अथ तद्त पञ्चमं प्रारभ्यते, अस्य 'चायमभिसम्बन्धः पूर्वम् 'ओगाहइ केवइय' कियन्तं द्वीपं समुद्रं वा सूर्योऽवगाहत इति यत् संग्रहगाथायां प्रोक्तं तदेवात्र प्रदर्शयिष्यते, इति सम्बन्धेनायातस्यास्य पञ्चमप्राभृतप्रामृतस्येदमादिमं सूत्रम् ‘ता केवइयं ' इत्यादि । ___ मूलम्-ता केवइयं ते दीवं वा समुदं वा ओगाहित्ता सुरिए चारं चरइ आहितेति वदेज्जा ? तत्थ खलु इमाओ पंच पडिवत्तीओ पण्णत्ताओ, तंजहा-तत्थेगे एवमाइंसु ता एगं जोयणसहस्सं एगं च तेत्तीसं जोयणसयं दीवं वा समुदं वा ओगाहित्ता सरिए
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy