SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ३५ ६१ चन्द्रशप्तिप्रकाशिका टीका प्रा० १-४सू०८ द्वयोः स्यर्योः परस्परमान्तर्यनिरूपणम् ५७ पंच जोयणाई' एञ्च पञ्च योजनानि 'पणतीसं च एगसहिभागे जोयणस्स' पञ्चत्रिंशच्च एकषष्टिभागान् (५-२० ) योजनस्य 'एगमेगे मंडले' एकैकस्मिन् मण्डले 'अण्णमण्णस्स, अन्योन्यस्य परस्परस्य भारतः सूर्य ऐरवतस्य, ऐरवतश्च सूर्यो भारतस्य 'अंतरं' व्यवधानं 'अभिवुड्ढेमाणा २' अभिवर्धयन्तौ २'सव्वबाहिरं मंडलं' सर्वबाह्यं मण्डलम् 'उवसंकमित्ता' उपसंक्रम्य 'चारं चरंति' चारं चरतः 'ता' तावत् 'जया णं' यदा खलु 'एते दुवे सूरिया' एतौ द्वौ सूर्यो 'सव्वबाहिरं मंडलं' सर्वबाह्य मण्डलम् 'उवसंकमित्ता चारं चरंति' उपसंक्रम्य चारं चरतः 'तया ण' तदा खलु 'एगं जोयणसहस्सं' एकं योजनशतसहस्रं लक्षमेकं योजनानां, तथा 'छच्च सहे जोयणसयाई' षट् च षष्टिः षष्टयधिकानि योजनशतानि षष्टयधिकषट्शतोत्तरेकलक्षयोजनपरिमितम् (१००६६०) 'अण्णमण्णस्स' अन्योन्यस्य 'अंतरं कट्टु' अन्तरं व्यवधानं कृत्वा 'चारं चरंति' चारं चरतः । अतएव 'तया णं' तदा खलु 'उत्तमकहपत्ता' उत्तमकाष्ठाप्राप्ता परमप्रकर्षप्राप्ता 'उकोसिया' उत्कषिका सर्वाधिकपरिमाणा ततः परमाधिक्याभावात् 'अट्ठारसमुहुत्ता' अष्टादशमुहूर्ता 'राई भवई' रात्रिर्भवति, तथा 'जहण्णए' जघन्यकः सर्वलघु प्रमाणः ततः परं लाघवाभावात् 'दुवालसमुहुत्ते' द्वादशा मुहूर्त्तः 'दिवसे भवई' दिवसो भवतीति । यदा द्वौ सूर्यो सर्वबाह्यमण्डले चारं चरतस्तदा तयोरन्तरं षष्टयधिकषट्शतोत्तरैकलक्ष. योजन (१००६६०) परिमितं भवतीति यत् प्रतिपादितं तत् कथमुपलभ्यते ? इति तदेव प्रदर्शयामः-एतयोर्द्वयोः सूर्ययोर्मध्ये एकैकस्य सूर्यस्य प्रतिमण्डलं योजनद्वयमष्टचत्वारिंशच्च एकषष्टिभागाः-(२ ) योजनस्य संचरणक्षेत्रं भवति, ततः एतत्क्षेत्रप्रमाणमेकस्य सूर्यस्य भवेत् तत् द्वयोः सूर्ययोः क्षेत्रपरिमाणर्य संमेल्यते तदा जातं पञ्च योजनानि पञ्चत्रिंशच्च एकषष्टिभागा योजनस्य (५-२५) इति पूर्व प्रदर्शितम् , तच्चात्र द्वयोः सूर्ययोनिष्क्रमणावसरत्वादभिवर्धमानं गृह्यते । सर्वाभ्यन्तरमण्डलाच्च सर्वबाह्यं मण्डलं ज्यशीत्यधिकशततमं (१८३) वर्तते, ततः पूर्वप्रदर्शितं यदभिवर्धनक्षेत्रं पञ्च योजनानि पञ्चत्रिंशञ्चैकषष्टिभागाः (५-एतद्रूपं तत् त्र्यशीत्यधिकेन शतेन गुण्यते । तत्र पञ्चानां योजनानां त्र्यशीत्यधिकशतेन गुणने समागतं गुणनफलं पञ्चदशोत्तरनवशत (९१५)संख्यकम् । ततः शेषा एकषष्टिभागसंख्या पञ्चत्रिंशत् (३५)इयमपि त्र्यशीत्यधिकशतेन गुण्यते प्राप्तं गुणनफलं पञ्चोत्तर चतुः-षष्टिशत (६४०५) संख्यकम् । एषः शशिरेकषष्ट्याराधिकत्वादेकषष्ट्या भागो हियते लब्धं
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy