SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ६१ चन्द्रप्राप्तिसूत्रे एतौ द्वौ सूय यदा सर्वाभ्यन्तरमण्ले चारं चरतः तदा चत्वारिंशदधिकषट्शतोत्तरनवनवतिसहस्त्रसंख्यक (९९६४०) योजनानि द्वयोः सूर्ययोः परस्परमन्तरं भवतीति प्रतिपादितम् । ततोऽग्रे निष्क्रमणसमये वृद्धःप्राप्तत्वात् प्रत्यहोरात्रं पञ्च योजनानि पञ्चत्रिंशच्चैकषष्टिभागान् योजनस्य संवयें सूया गतिं कुरुतः, इति पूर्व सिद्धान्तरूपेण प्ररूपितम् । तदनुसारेण सूर्यो यदा सर्वाभ्यन्तरमण्डलादलेतनं मण्डलमुपसंक्रामतः, तदा तस्मिन् प्रथमेऽहोरात्रे पूर्व प्रदर्शितप्रमाणे(९९६४०) पञ्चत्रिंशदेक पष्टिभागोत्तरपञ्चयोजनानां (५-२५ ) संमेलने निष्क्रामणावसरत्वादन्तरमध्येवृद्धिमाश्रित्य आगतं (९९४५ २५) प्रथमाहोरात्रप्रमाणम् । एवं द्वितीयेऽहोरात्रे गताहोरात्र संख्यायां (९९६४५ ३६) पञ्चत्रिंशदेकषष्टिभागाधिकपञ्चयोजनानांसंमेलने आगतं (९९६५१) द्वितीयाहोरात्रप्रमाणाम् । एवमग्रेऽपि संवर्धनक्रमः परिभावनीयः यावत् प्रथम षण्मासस्यान्ते सर्वबाह्यमण्डलचारसमये षष्टयधिकषट्शतोत्तरमेकं लक्ष योजनानां (१००६६०) द्वयोः सूर्ययोः परस्परमन्तरं लभ्यते तावत्पर्यन्तं योजनीयमिति । तदेव संक्षेपेण दर्शयति-‘एवं खलु' इत्यादि । ‘एवं' इति अनेनपूर्वोक्तेन 'उवाएणं' उपायेन विधिना तथा च एकतएकः सूर्यः प्रतिमण्डलं द्वे योजने अष्टचत्वारिंशच्च एकषष्टिभागान् (२४८) योजनस्यविकम्प्य (उपभुज्य) चारं चरति, अपरतो द्वितीयोऽपिसूर्यएवमेव अष्टचत्वारिंशदेकषष्टि भागयुतं योजनद्वयं (२- विकम्प्य चारं चरति, एवं द्वयोमलने जातं पञ्चयोजनानि पञ्चत्रिंशच्चैकषष्टिभागाः (५-२८) परिमाणम्, एवं रूपेण निष्क्रामन्तौ तौ द्वावपि जम्बूद्वीपगतौ सूर्यों पूर्वपूर्वस्मात् तदनन्तरस्थितात् मण्डलात् तदनन्तर स्थितं मण्डलं संक्रामन्तौ एकैकस्मिन् मण्डले पूर्वपूर्वमण्डलगतान्तरपरिमाणापेक्षयापञ्च पञ्च योजनानि पञ्चैत्रिंश चैकषष्टि भागान् (५-३१) योजनस्यपरस्परमभिवर्धयन्तौ २ नवसूर्यसंवत्सरस्य व्यशीत्यधिकशत(१८३)तमेऽहोरात्रे प्रथम षण्मास पर्यवसानभूते सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरतः, तस्मिन् समये द्वयोः सूर्ययोरन्तरं षष्टयत्तर षट् शताधिकं लक्षमेक (१००६६०) योजनानां प्राप्यते, इत्यने स्पष्टी भविष्यति । एतेन विधिना 'निक्खममाणा' निष्क्रामन्तौ 'एते दुवे सूरिया' एतौ दो सूर्यो 'तया णं तराओ' तदनन्तरात् यत्र सूर्यो स्थितौ तस्मात् 'मंडलाऔं' मण्डलात् 'तयाणं तरं' तदनन्तर तदने स्थितं 'मंडलं' मण्डलं 'संकममाणा, २ संक्रामन्तौ २ पंच
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy