SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्तिप्रकाशिका टीका प्रा० १-४सू०८ द्वयोः सूयर्योः परस्परमन्तरं लभ्यते ५५ 'ता' तौ द्वौ निक्खममाणा' निष्क्रामन्तौ सर्वाभ्यन्तरमण्डलाद् वहिर्गच्छन्तौ 'सूरिया' सू? णवं संवच्छरं' नवं संवत्सरं सूर्यसंवत्सरं 'अयमाणा' अयन्तौ प्राप्नुवन्तौ तस्यैव नवसंवत्सरस्य ‘पढमंसि अहोरत्तंसि' प्रथमेऽहोरात्रे 'अभितराणं तरं मंडलं' अभ्यन्तरानन्तरं अभ्यन्तरातनं मण्डलं ‘उवसंकमित्ता चारं चरंति' उपसंक्रम्य चारं चरतः । 'ता' तावत् 'जयाणं' यदा खलु ‘एते दुवे सूरिया' एतौ द्वौ सू? 'अभितराणं तरं मंडलं' अभ्यन्तरानन्तरं मण्डलं 'उवसंकमित्ता चारं चरंति' उपसंक्रम्य चारं चरतः 'तया णं' तदा खलु 'नवनवई जोयणसहस्साई' नवनवति योजनसहस्त्राणि तदुपरि 'छच्च' षट् 'पणताले' पञ्च चत्वारिंशत् जोयणसयाई' योजनशतानि पञ्च चत्वारिंशदधिकानि षट् शतानि (९९६४५) योजनानिमिति भावः पुनः ‘पणतीस च' पश्चत्रिशच्च ‘एगढिगमागे एकषष्टिभागान् ‘जोयणस्स' योजनस्य, तथा चाङ्कतः-९९६४५ २५, एतावत्प्रमाणं अण्णमण्णस्स' अन्योन्यस्स परस्यरस्य एकतो द्वितीयस्य 'अंतरं' अन्तरं व्यवधानं 'कटु' कृत्वा चारं चरंति' चारं चरतः अतएव 'तया णं' तदा तस्मिन् काले खलु 'अट्ठारसमुहुत्ते दिवसे भवई' अष्टादशमुहूत्र्तो दिवसो भवति किन्तु सः 'दोहिं एगाद्विभागमुहुत्तेहिं' द्वाभ्यामेकषष्टिभागमुहूर्ताभ्यां 'ऊणे' ऊनः हीनो भवति, तथा 'दुवालसमुहुत्ता राई भवई' द्वादशमुहूर्ता रात्रिर्भवति, सा च 'दोहि एगद्विभागमुहुत्तेहिं' द्वाभ्यामेकषष्टिभागमुहूर्ताभ्यां 'अहिया' अधिका भवति, यावत्प्रमाणेन दिवसो न्यूनो भवति तावत्प्र. माणेनैव रात्रेवृद्विसद्भावात् । पुनरपि ते णिक्खममाणा सूरिया' तौ निष्क्रामन्तौ द्वितीयमण्डलान्निस्सरन्तौ सूर्यो नवस्य सूर्य संवत्सरस्य 'दोच्चंसि अहोरत्तंसि' द्वितीये अहोरात्रे 'अन्भितरं' आभ्यन्तरं सर्वाभ्यन्तरं तच्चं मंडलं' तृतीयं मंडलं 'उवसंकमित्ता चारं चरंति'उपसंक्रम्य चारं चरतः 'ता' तावत् 'जया णं' यदा खलं 'एते दुवे सरिया' एतौ दो सूर्यो 'अभितरं तच्च 'मंडलं' आभ्यन्तरं तृतीयं मण्डलं 'उवसंकमित्ता चारं चरंति' उपसंक्रम्य चारं चरतः 'तया णं तदा खलु 'नवनवई' नवनवतिं 'जोयणसहस्साई' योजनसहस्त्राणि 'छच्च एक्कावण्णे जोयणसयाई' षट् एक पञ्चाशत् योजनशतानि एक पञ्चाशदधिकानि षट्शत्योजनानि 'नव य एगद्विभागे जोयणस्स' नव च एक षष्टिभागान् योजनस्य 'अण्णमण्णस्य' अन्योन्यस्य 'अंतरं कटु चारं चरंति' अन्तरं कृत्वा चारं चरतः, अतएव 'तया णं' तदा तस्मिन् समये खलु 'अट्ठारसमुहुत्ते दिवसे भवइ' अष्टादशमुहूत्तों दिवसो भवति, किन्तु सः 'चउहिं एगद्विभागमुहुत्तेहिं' चतुभिरेकषष्टिभागमुहूर्तः 'ऊणे' ऊनः हीनो भवति, तथा 'दुवालसमुहुत्ताराईभवई' द्वादशमुइर्ता रात्रिमवति, किन्तु सा 'चरहिं एगद्विभागमुहुत्तेहि' चतुर्भिरकषष्टिभागमुहूर्तेः 'अहिया' अधिका भवति । द्वयोः सूर्य योरेतावदन्तरं कया रीत्या समुपलभ्यते ! अत्रोच्यते
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy