________________
चन्द्रप्रज्ञप्तिसूत्रे योजनस्य एतावत्प्रमाणाद्वयोः सूर्ययोरन्तरे वृद्धिर्हानिर्वा अग्रेऽग्रे प्रत्येकस्मिन्नहोरात्रे भवतीति सर्वत्र भावनीयम् । एवं श्रुत्वा भगवान् गौतम पुनः पृच्छति-'तत्थ णं' इत्यादि । 'तत्थ णं' तत्र तस्यां भवत्प्रदर्शितव्यवस्थायां खलु हे भदन्त ! 'को हे उ' को हेतुः किं कारणं, तदवगमेका उपपत्ति ? 'त्ति' इति 'वएज्जा' वदेत् , प्रसादं कृत्वा कथयतु हे भगवनिति । एवं गौतमेन पृष्टे भगवान् पूर्वोक्त विषयं स्पष्टयति-ता अयण्णं' इत्यादि । 'ता' तावत् प्रथमं जम्बूद्वीपपरिमाणं श्रूयताम् 'अयण्णं' अयं प्रत्यक्षं दृश्यमानः खलु 'जंबुदीवो दीवो' जम्बूद्वीपो द्वीपः मध्यजम्ब्वोपः 'जाव' यावत्-यावत्पदेन पूर्वप्रदर्शितं सर्वमपि जम्बूद्वीपपरिमाण प्रतिपादकं वाक्यमत्रापि भावनीयम् । 'परिक्खेवेणं' परिक्षेपेण अयं पूर्वप्रदर्शितपरिमाणेन परिधिना 'पण्णत्ते' प्रज्ञप्तः कथितः । 'ता' तावत् 'जयाणं' यदा स्वल 'एते दुवे सूरिया' एतौ द्वौ सू? 'सव्वन्भंतर मंडलं' सर्वाभ्यन्तरमण्डमं 'उपसंकमित्ता' उपसंक्रम्य 'चारं चरंति' चारं चरतः 'तया णं' तदा खलु 'णवणउइं जोयणसहस्साई' नवनवति योजनसहस्त्राणि नवनवति सहस्त्रसंख्यकानि योजनानि तदुपरि 'छच्च' षट् 'चत्ताले' चत्वारिंशत् 'जोयणसयाई' योजनशतानि चत्वारिंशदधिक षट् शतसंख्याकानि (९९६४.) योजनानि 'अण्णमण्णस्स' अन्योन्यस्य 'अंतरं कटु' अन्तरं कृत्वा 'सूरिया' सूर्यो 'चारं चरंति' चारं चरतः अतएव 'तया णं तदा खलु 'उत्तमकट्ठपत्ते उत्तमकाष्ठा प्राप्तः परमप्रकर्षप्राप्तः 'उक्कोसए' उत्कर्षकः ततः परमुत्कर्षाभावात् 'अट्ठारसमुहुरो' अष्टादशमुहूर्तः षट् त्रिंशद् घटिकायुक्तः 'दिवसे भवई' दिवसो भवति 'जहणिया' जधन्यिका सर्वलध्वी ततः परं लाघवाभावात् 'दुवालसमुहुत्ता' द्वादशमुहूर्ता द्वादशमुहूर्त्तवती चतुर्विंशति घटिका युक्ता 'राई भवई' रात्रिर्भवति । अत्राह-सर्वाभ्यन्तरे मण्डले द्वयोः सूर्ययोः परस्परं 'णवणउइं जोयणसहस्साई' इत्यादि कथितप्रमाणकमन्तरे कथमुपलभ्यते ? इति चेदाहइह जम्बूद्वीपो द्वीपः आयामविष्कम्भाभ्यामेकलक्ष योजनप्रमाणः (१०००००) तत्रैकः सूर्यो जम्बूद्वीपस्य मध्ये अशीत्यधिकमेकं शतं योजनानि समवगाह्य सर्वाभ्यन्तरमण्डले 'चारं चरति' एवं द्वितीयोऽपि अशीत्यधिकमेकं शतं योजनानां समवगाह्य चारं चरति अशीत्यधिकं शतमेकं द्वाभ्यां गुणितं द्वयोः सूर्ययोः संमिलितं जातं षष्ट्यधिकं शतत्रयम् (३६०) एतत् जम्बूद्वीपस्य लक्षयोजनप्रमाणादपनीयते तत आगतं पूर्वोक्तमन्तरपरिमाणं चत्वारिंशदधिक षट्शत्तोत्तरनवनवति सहस्रयोजनरूपम् (९९६४०)। तथा च कोष्ठकम्
जम्बूद्वीपप्रमाणम्-१००००० --लक्षमेकम् , एष अपनेय राशिः सूर्य द्वयावगाह्यक्षेत्रम् ३६०-षष्ट्यधिकं शतत्रयम् , एष अपनयन सूर्यद्वयान्तरक्षेत्रम्-९९६४०-चत्वारिंशदधिक षट् शतोत्तरनवनवति सहनशशिः संख्यकम् एष अपनीत राशिः सूर्यः द्वयान्तरम् ।