________________
चन्द्रप्रशतिसूत्रे
माच्छादितो देशेन चानाच्छादितो भवति । 'सुक्ल पक्खे' शुक्लपक्षे तमेव क्रममाश्रित्य प्रथमायां शुक्लप्रतिपलक्षाणां तिथौ 'उवदंसे माणे २' उपदर्शयन् उपदर्शयन् चन्द्रलेश्यां विमुञ्चन् विमुञ्चन् तिष्ठति-वर्त्तते । 'तं जहा ' पद्यथा - ' पढमाए पढमं भागं' प्रथमायां शुक्लप्रतिपत्तिथौ प्रथमं पञ्चदशंभागं चतुर्भागरूपं विमुञ्चति एवं क्रमेण 'जाव' यावत् द्वितीयात आरभ्य पञ्चदश्यां तिथौ पूर्णिमायां पञ्चदशं पञ्चदशभागं राहुर्विमुञ्चति ततः पूर्णिमायाश्चरमे समये 'चंदे विरत्ते भवइ' चन्द्रो विरक्त राहुश्याया सर्वात्मना विरक्तः अनाच्छादितो भवति सर्वात्मना प्रकटितो भवतीत्यर्थः राहुविमानेन सर्वथाऽनाच्छादितत्वात् । अत्राह कश्चित् - शुक्लपक्षे कृष्णपक्षे च कतिपयान् दिवसान् यावत् राहुबिमानं वृत्तमुपलभ्यते यथा ग्रहणकाले पर्वराहुः, कतिपयश्च दिवसान् यावत् न वृतमुपलभ्यते तत्र किं कारणम् ? इति अत्रोच्यते इह येषु दिवसेषु शशी तमसाऽतिशयेनाभिभूयते तेषु दिवसेषु तद् विमानं वृत्तमाभाति, चन्द्रप्रभाया बाहुल्येन प्रसराभावात् राहुविमानस्य च यथावस्थिततयोपलम्भात् । येषु दिवसेषु पुनश्चन्द्र आधिक्येन प्रकटो भवति तेषु दिवसेषु चन्द्रप्रभा राहुविमानेन नाभिभूयते किन्तु चन्द्रप्रभाया बाहुल्येन चन्द्रप्रभयैव राहुविमानप्रभाऽभिभूयते ततस्तदा न राहुविमानं वृत्ततयोपलभ्यते । पर्वराहुविमानं च ध्रुवराहुविमानादतीव तमो बहुलं भवति ततस्तस्य स्तोकस्यापि चन्द्रप्रभयाऽभिभवो न भवतीति तस्य स्तोकरूपस्यापि वृत्तत्वेनोपलब्धिर्भवति । तथा चाह
७०२
"वच्छेओ कइवय दिवसे ध्रुवराहुणो विमाणस्स । परं न दीस जह गहणे पव्वराहुस्स ॥ १॥" छाया - वृत्तच्छेदः कतिपयदिवसे ध्रुवराहो विमानस्य ।
दृश्यते, परं न दृश्यते यथा ग्रहणे पर्वराहोः १ ॥ १ ॥
इति शिष्यपृच्छा आचार्य उत्तरमाह -
“अच्चत्थं नहि तमसाऽभिभूयते जं ससी विमुंचतो । तेणं वट्टच्छेओ गहणे उत्तमो तमो बहुलो ॥२॥
छाया — अत्यर्थं नहि तमसाऽभिभूयते यत् शशी विमुच्यमानः ।
तेन वृत्तच्छेदः, ग्रहणे तु तमाः (राहुः) तमो बहुलः ||२||
इति । साम्प्रतं पर्वराहुः कियता कियता कालेन चन्द्रस्य सूर्यस्य वा उपरागं करोति ? इति प्रदर्शयति - तत्थ णं जे से पव्वराहू' इत्यादि, 'तत्थ णं' तत्र चन्द्रसूर्ययोरुपरागविषये 'जे से पव्व राहू' बः स पर्वराहु भवति 'से णं' स खलु पर्वराहुः 'जहण्णेणं छण्हं मासाणं' जघन्येन षण्णां मासा - नामुपरि चन्द्रस्य सूर्यस्य चोपरागं करोति न ततः पूर्वम् । 'उक्को सेणं' उत्कर्षेण 'बायालीसाए मासाणं' द्विचत्वारिंशतो मासानामुपरि 'चंदस्स' चन्द्रस्योपरागं करोति तथा 'अडयालीसाए