SearchBrowseAboutContactDonate
Page Preview
Page 724
Loading...
Download File
Download File
Page Text
________________ चन्द्रातिप्रकाशि काटीका प्रा०२० सू.३ चन्द्रस्यशशी सूर्यस्य 'आदित्य' नामकरणम् ७०३ संवच्छराणं' अष्टाचत्वारिंशतः संवत्सराणामुपरि 'सूरस्स' सूर्यस्योपरागं करोतीति भावः ॥ सू२ ॥ . . . साम्प्रतं चन्द्रस्य लोके 'ससी' इति सूर्यस्य सूर्य आदित्य इति च कथं नाम जातं, का तस्योऽन्वर्थ ता ? इति स प्रश्नं प्रदर्शयति सूत्रकारः- 'ता कहते चंदे ससी' इत्यादि । - मूलम्--ता कहं ते चंदे ससी चंदे ससी आहिए ? ति वएज्जा, ता चंदस्स गं जोइसिंदस्स जोइसरण्णो मियंके विमाणे कंता देवा, कंताओ देवीओ, कंताई आसण सयणखभभंडमत्तोवगरणाई अप्पणावि णं चंदे देवे जोइसिंदे जोइसराया सोम्मे कंते सुभगे पियदंसणे सुरूवे ता एवं खलु चंदे ससी चंदे ससी आहिएति वएज्जा ॥ ता कहं ते सूरे आइच्चे आहिए ? तिवएज्जा, ता सूराईया समयाइवा आवलियाइवा आणा पाणूइ वा थोवेइवा जाव उस्सप्पिणी ओसप्पिणी इवा, एवं खलु सूरे आइच्चे २ आहिए तिवएज्जा ॥सू० ३॥ छाया-तावत् कथं ते-त्वया चन्द्रः शशी चन्द्रः शशी आख्यातः ? इति वदेत्, तावत् चन्द्रस्य खलु ज्यौतिषेन्द्रस्य ज्योतिषराजस्य मृगाङ्क विमानं, कान्ता देवाः, कान्ता देव्यः कान्तानि-आसनशयनस्तम्भभाण्डामत्रोपकरणानि आत्मनाऽपि खलु चन्द्रो ज्योतिषेन्द्रः ज्योतिषराजः सौम्यः कान्तः सुभगः प्रियदर्शनः सुरूपः तावत् एवं बालु चन्द्रः शशीचन्द्रः शशीआख्यातः इति वदेत् । तावत् कथं ते (त्वया) सूर्य आदित्यः सूर्य आदित्यः आख्यातः ? इति वदेत् । तावत् सूर्यादिकाः समया इति वा आवलिका इति वा आनप्राणा इति बा स्तोक इति वा यावत् उत्सर्पिण्यवसर्पिणीति वा, एवं खलु सूर्य आदित्यः सूर्य आदित्य आख्यातः इति वदेत् ॥सू० ॥ ३॥ , व्याख्या—'ता कहते चंदे' इति 'ता' तावत् 'कह' कथं केन प्रकारेण 'ते' त्वया 'चंदे ससी' चन्द्रः शशी इति-'आहिए' आख्यात इति गौतमस्वामिन पृच्छा, हे भगवन् ! 'ति वएज्जा' इति वदेत् वदतु कथयतु । श्रीभगवानाह-'ता चंदस्स णं' इत्यादि, 'ता' तावत् 'चंदस्स णं' चन्द्रस्य खलु ज्यौतिषेन्द्रस्य ज्येतिषराजस्य 'मियंके विमाणे' मृगाके मृगचिन्हे चन्द्रविमाने 'कंता देवा' कान्ताः कमनीयरूपा देवाः तथा 'कंताओ देवीओ' कान्ताः कमनीया देव्यश्च सन्ति । तथा 'कंताई' कान्तानि आसनशयनस्तम्भभाण्डामत्रोपकरणानि चन्द्रविमाने आसनानि शयनानि स्तम्भाः भाण्डाद्युपकरणानि च सर्वाणि सुन्दराकाराणि सन्ति, एतावदेव न किन्तु 'अप्पणावि गं' आत्मनाऽपि स्वयमपि खलु चन्द्रो देवो ज्योतिषेन्द्रो ज्यौतिषराजः 'सोम्मे सौम्यः सौम्याकारः अरौद्राकारत्वात्, कान्तः कन्तिमान् , सुभगः सौभाग्यशाली जनवल्लभत्वात, 'पियदंसणे प्रियदर्शनः जनमनआह्लादकत्वात् 'मुरूवे' सूरूपः अङ्गप्रत्यङ्गावयवानां शुभसंनिवेशकत्वात् 'ता' तावत् एवम् अनेन कारणेन खलु चन्द्रः शशी चन्द्रः शशीति 'आहिए' आख्यातः तिवएज्जा' इति-एवं वदेत् कथयतु स्व शिष्येभ्यः । अयं भावः यत् सर्वात्मना सुन्दरत्वमा मन्वर्थमधिकृत्य चन्द्रः शशोति व्यपदिश्यते । कया व्युत्पत्त्याऽस्यान्वर्थता ! उच्यते-इह 'शा
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy