SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ बन्द्रप्तिप्रकाशिका टोका प्रा.१९.सू.१ चन्द्रसूर्यग्रहगणनक्षत्र तारारूपाणां संख्यादिकम् ६६१ तानि ज्ञातव्यानि ॥३०॥ एवं जम्बूद्वीपे, द्विगुणा लवणे चतुर्गुणा भवन्ति । लवणाच्च त्रिगुणिताः शशि सूर्या धातकी षण्डे ।३१॥ द्वौ चन्द्रौ इह द्वीपे, चत्वारश्च सागरे लवणतोये । धातकीषण्डे द्वीपे द्वादश चन्द्राश्च सूर्याश्च ॥३२॥ धातकी षण्ड प्रभृतिषु, उद्दिष्टास्त्रि गुणिता भवन्ति चन्द्राः । आधचन्द्रसहिता, अनन्तरानन्तरे क्षेत्रे ॥३३॥ ऋक्ष्य ग्रहताराग्रं, द्वीपसमुद्रे यदीच्छसि ज्ञातुम् । तच्छशिभिस्तद् गुणितं ऋक्षग्रहतारकाग्रं तु ॥३४॥ बहिस्तु मानुषनगस्य चन्द्रसूर्याणामस्थिता ज्योत्स्ना । चन्द्रा अभिजिद् युक्ताः सूर्याः पुनर्भवन्ति पुष्यैः ॥३५॥ चन्द्रात् सूर्यस्य च सूर्यात् चन्द्रस्य अन्तरं भवति । पञ्चाशत्सहस्राणि तु योजनानामन्यूनानि ॥३६॥ सूर्यस्य च सूर्यस्य च शशिनः शशिनश्च अन्तरं भवति । बहिस्तु मानुषनगस्य, योजनानां शतसहस्रम् ॥३७॥ सूर्यान्तरिताश्चन्द्राः, चन्द्रान्तरिताश्च दिनकरा दीप्ताः। चित्रान्तरलेश्याकाः, शुभलेश्या मन्दलेश्याश्च ॥३८॥ अष्टाशीतिश्चग्रहाः अष्टाविंशतिश्च भवन्ति नक्षत्राणि । एक शशि परिवारः इतस्ताराणां वक्ष्यामि ॥३९॥ षट्षष्टिः सहस्राणि, नव चैव शतानि पञ्च सप्ततानि एक शशि परिवारः, तारा गणकीटि कोटोनाम्॥४०॥सू० १॥ __व्याख्या--'ता कइ णं' इत्यादि । 'ता' तावत् 'कइणं' कति खलु 'चंदिमसूरिया' चन्द्रसूर्याः 'सबलोयं' सर्वलोकम् 'ओभासेंति उज्जोति' तवेति पभासें ति' अव भासयन्ति, उद्योतयन्ति, तापयन्ति-प्रकाशयन्ति, प्रभासयन्ति, एतद्विषये भवता किम् 'आहियं' आख्यातम् ! कथितम् ति वएज्जा' इति वदेत् वदतु कथयतु हे भगवन् । एवं गौतमेन पृष्टे भगवान् एतद्विषये या द्वादश प्रतिपत्तयः भवन्ति ताः प्रदर्शयति-'तत्थ खलु' इत्यादि, 'तत्थ' तत्र चन्द्र सूर्य संख्याविषये खलु ‘इमाओ' इमाः वक्ष्यमाणस्वरूपाः 'बारस पडिवत्तीओ' द्वादश प्रतिपत्तयः परतीर्थिकमतरूपाः 'पण्णत्ताओ' प्रज्ञप्ताः । ता एवाह-'तत्थेगे' इत्यादि, 'तत्थ' तत्र द्वादश प्रतिपत्तिवादिनां मध्ये 'एगे' एके केचन परमतवादिनः ‘एवं' एवम्-वक्ष्यमाणप्रकारेण 'आईसु' आहु कथयन्ति, किमाहुरित्याह- 'ता एगे' इत्यादि, 'ता' तावत् ‘एगे चंदे एगे सुरे सव्वलोयं' एकश्चन्द्रः एकः सूर्यः सर्वलोकम् 'ओभासेइ' इत्यादि, अवभासयति, उद्द्योतयति तापयति प्रभासयति, उपसंहारमाह-‘एगे' एके प्रथमप्रतिपत्तिवादिनः 'एवं' एवम्-पूर्वोक्त प्रकारेण 'आहेसु' आहुः कथयन्ति ।१। द्वितीयप्रत्तिमाह-'एगे पुण' एके द्वितीयाः पुनः 'एवमाहंसु' एवमाहुः 'ता' तावत् 'तिण्णि चंदा तिण्णि सुरा सव्वलोयं ओभासंति ३' त्रयश्चन्द्राः त्रयः सूर्याः सर्वलोकम् अवभासयन्ति उदद्योतयन्ति तापयन्ति प्रभासयन्ति 'एगे' एवमाहंसु एके एवमाहुः ॥२॥ तृतीयां प्रतिपत्तिमाह- 'एगे पुण एमाहंसु' एके तृतीया एवमाहुः-'ता' तावत् 'आउटिं चंदा आउट्टि सूरा' अर्द्ध चतुर्थाःसार्दास्त्रयश्चन्द्राः अर्द्ध चतुर्था सा स्त्रयः सूर्याः 'ओभासंति ४' अवभासयन्ति ४, ‘एगे एवमाहंसु' एके एवमाहुः ।३। अथाग्रेऽतिदेशमाह
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy