SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ ६६२ चन्द्रप्राप्तिसूत्रे 'एवं एएणं' इत्यादि, 'एवं' एवम् एवमेव अनेनैव प्रकारेण एएणं' एतेन पूर्वोक्त प्रतिपत्तित्रयोक्त सदृशेन 'अभिलावेणं' अभिलापेत आलापकेन 'जहा तइए पाहुडे' यथा तृतीये प्रामृते 'दीवसमुद्दाणं दुवालसपडिवत्तीओ' द्वीपसमुद्राणां द्वादश प्रतिपत्तयः प्रोक्ताः 'ताओ चेव इहंपि' ता एव इहापि एकोनविंशतितमे प्राभृते 'चंदिमसूराणं' चन्द्रसूर्याणाम् ‘णेयव्वा' ज्ञातव्याः कियत्पर्यन्त. मित्याह-'जाव' इत्यादि, 'जाव' यावत् 'बावत्तरं चंदसहस्सं बावत्तरं सूरसहस्सं' द्वासप्ततिः चन्द्रसहस्त्राणि द्वासप्ततिः सूर्यसहस्राणि 'ओभार्सेति ३' अवभासयन्ति : । तथाहि तत्पाठः _ 'सत्तचंदा' इत्यादि, चतुर्थाः चतुर्थप्रतिपत्तिवादिनः-सप्तचन्द्रा सप्तसूर्या इति कथयन्ति ॥४॥ एवं पञ्चमप्रतिपत्तिवादिनः दश चन्द्राः दश सूर्या इति ॥५॥ षष्ठ प्रतिपत्तिवादिनः द्वादश चन्द्राः द्वादश सूर्याः ।६। सप्तमप्रतिपत्तिवादिनः द्विचत्वारिंशच्चन्द्राः द्विचत्वारिंशत् सूर्याः ||७|| अष्टम प्रतिपत्तिवादिनः द्वासप्ततिश्चन्द्राः द्वासप्ततिः सूर्याः ॥८॥ नवमीं प्रतिपत्तिमाह द्विचत्वारिंशं द्विचत्वारिंशदधिकं चन्द्रशतं द्विचत्वारिंशं द्विचत्वारिशदधिकं सूर्य शतम् ।९। दशमी माह द्विसप्ततिं द्विसप्तत्यधिकं चन्द्रशतं द्विसप्ततिं द्विसप्तत्यधिकं सूर्यशतम् ।१०। एकादशीमाह द्विचत्वारिंशं चन्द्रसहस्रं द्विचत्वारिंशं सूर्यसहस्रमिति कथयन्ति ।११। द्वादशी प्रतिपत्ति माह- 'एगे पुण' इत्यादि, 'एगे पुण' एके द्वादश प्रतिपत्तिवादिनः पुनः ‘एवमाहेसु' एवमाहुः-'ता' तावत् 'बावत्तरं चंदसहस्सं बावत्तरं सूरसहस्सं' द्वासप्ततं-द्वासप्तत्यधिकं चन्द्रसहस्र द्वासप्ततं सूर्यसहस्रम् 'सव्वलोयं' सर्वलोकम् 'ओभार्सेति' ४। अवभासयन्ति, उद्योतयन्ति तापयन्ति प्रभासयन्ति, उपसंहारमाह-'एगे' एके द्वादश प्रतिपत्तिवादिनः ‘एवं' एवम्पूर्वोक्तप्रकारेण 'आइंसु" आहुः कथयन्ति ।१२। एता द्वादश्योऽपि प्रतिपत्तयः सर्वथा मिथ्या० अतो भगवान् एताभ्यः सर्वाभ्यः पृथग्भूतं स्वमतं प्रदर्शयति-वयं पुण' इत्यादि 'वयं पुण' वयं तु एवं एवम्-वक्ष्यमाणप्रकारेण 'वयामो' वदामः कथयामः। तदेव प्रदर्शते-'ता अयण्णं' इत्यादिना 'ता' तावत् 'अयण्णं' अयं खलु शास्त्रप्रसिद्धः' जंबुद्दीवे दीवे' जम्बूद्वीपो द्वीपः मध्यजम्बूद्वीपः 'जाव परिक्खेवेणं पण्णत्ते' यावत् परिक्षेपेण प्रज्ञप्तः, यावत् पदेन जम्बूद्वीपवर्णनं सर्वमत्र वाच्यम्, अस्य व्याख्यानमपि तत्रोक्तवदेव कर्तव्यम् । भगवानाह-'ता' तावत् जंबूद्दीवे दीवे' जम्बूद्वीपे द्वीपे 'दो चंदा पभासेंसु वा पभासेंति वा पभासिस्संति वा' द्वौ चन्द्रौ प्राभासयतां वा प्रभासयतो वा प्रभासयिष्यतो वा, अथ जीवाभिगमस्यातिदेशमाह 'जहा' इत्यादि, 'जहा जीवाभिगमे' यथा जीवाभिगमे जम्बूद्वीपगत चन्द्रसूर्यग्रहगणनक्षत्रताराणां संख्या प्रोक्ता तथैव इहापि वाच्या, कियत्पर्यन्त मित्याह-'जाव' इत्यादि 'जाव ताराओ' यावत् ताराः सूर्य संख्यात आरभ्य यावत् ताराणां संख्या प्रोक्ता तावत्पर्यन्तमिति भावः । तथाहि तत्पाठः 'दो सूरिया' इत्यादि, दो सूरिया तविंसुवा ३' जम्बूद्वीपे द्वौ सूर्यौ अतापयताम् तापयतोवा तापयिष्यतो वा 'छप्पण्णं णक्खत्ता जोयं जोइंसु वा' षट् पञ्चाशत्
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy