________________
६६०
चन्द्रप्रज्ञप्तिसूत्रे शोभाम शोभन्त वा ३,। गाथा:-"अष्टैव शतसहस्राणि, आभ्यन्तर पुष्करवरस्य विष्कम्भः। पञ्चाशत् शत सहस्राणि, मानुषक्षेत्रस्य विष्कम्भः॥१॥ कोटिः द्विचत्वारिंशत्सहस्राणि द्वेशते च एकोन पञ्चाशे। मानुषक्षेत्रपरिरयः, एवमेव च पुष्करार्द्धस्य ॥२॥ द्वासप्ततिश्च चन्द्राः, द्वासप्ततिरेव दिनकरा दीप्ताः । पुष्करवरद्वीपाढे चरन्ति एते प्रभासयन्तः ॥३॥ त्रीणि शतानि षट् त्रिंशत् षट् सहस्राणि महाग्रहाणां तु नक्षत्राणां तु भवन्ति षोडशे द्वे सहस्र ।४॥ अष्ट चत्वारिंशत् शतसहस्राणि, द्वाविंशतिः खलु भवन्ति सहस्राणि, द्वे च शप्ते पुष्करार्द्ध, तारागण कोटि कोटोनाम् ॥॥ द्वात्रिंशत्कं चन्द्रशतं, द्वात्रिंशत्कं चैव सूर्याणां शतम् । सकलं मानुषलोकं, चरन्ति एते प्रभासयन्तः ॥६॥ एकादश च सहस्राणि, पडपि च षोडशानि महाग्रहाणां तु । षट् शतानि षण्णवतानि, नक्षत्राणि त्रीणि च सहस्राणि ॥७॥ अष्टाशोतिः चत्वारि शानि शतसहस्राणि मनुजलोके । सप्त च शतानि अन्यूनानि, तारागण कोटि कोटीनाम् ॥८॥ एष तारा पिण्डः सर्वसमासेन मनुजलोके । बहिः पुनः स्ताराः, जिनर्भणिता असंख्येयाः ॥९॥ इयत्कं तारागं, यद् णितं मानुषे लोके । चारं कलम्बुकपुष्प संस्थितं ज्यौतिषं चरति ॥१०॥ रवि शशि ग्रहनक्षत्राणि, इयन्ति आख्यातानि मनुजलोके । येषां नाम गोत्रं न प्राकृताः प्रज्ञपयिष्यन्ति ॥११।। पटू षष्टिः पिटकानि, चन्द्रादित्यानां मनुजलोके । द्वौ चन्द्रौ द्वौ सूयौ च, भवत एकैकस्मिन् पिटके । १२॥ षट् षष्टिः पिटकानि, नक्षत्राणां तु मनुजलोके । षट् पञ्चाशद् नक्षत्राणि, भवन्ति एकैकस्मिन् पिटके ॥१३॥ षट् षष्टिः पिटकानि, महाग्रहाणां तु मनुजलोके । षट् सप्ततं ग्रहशत, भवति एकै. कस्मिन् पिटके ॥१४॥ चतस्रश्च पङ्क्तयः चन्द्रादित्यानां मनुजलोके । षट् षष्टिः षट्रष्टिश्च भवन्ति एकैकस्यां पंक्तौ ।।१५।। षट् पञ्चाशत पंक्तयः, नक्षत्राणां तु मनजलोके । षट पतिः षट् षष्टिः भवन्ति एकैकस्यां पङ्क्तौ ॥१६॥ षटू सप्ततं ग्रहाणां पक्तिशतं भवति मनुजलोके । षट् षष्टिः षट् षष्टिः भवन्ति एकैकस्यां पंक्तौ ॥१७॥ ते मेरु मनुचरन्तः प्रदक्षिणावर्त मण्डलाः सर्वे । अनवस्थितयोगैः, चन्द्राः सूर्याः ग्रहगणाश्च ॥१८॥ नक्षत्र तारकाणाम्, अवस्थितानि मण्डलानि ज्ञातव्यानि । ते अपि च प्रदक्षिणावर्त्तमेव मेरुमनुचरन्ति ॥१९॥ रजनीकरदिनकराणां, ऊर्ध्वमधश्च संक्रमो नास्ति । भण्डलसंक्रमण पुनः, साभ्यन्तर बाह्य तिर्यक् ॥२०॥ रजनीकरदिनकराणां, नक्षत्राणां महाग्रहाणां च । चारविशेषेण भवेत सुख दुःख विधिर्मनुष्याणाम् ॥२१॥ तेषां प्रविशतां तापक्षेत्रं तु वद्धते नियतम् । तेनैव क्रमेण पुनः परिहीयते निष्क्रमताम् ॥२२॥ तेषां कलम्वुक (कदम्बक) पुष्पसंस्थिता भवन्ति तापक्षेत्र पथाः । अन्तश्च संकुचिता बहिविस्तृता चन्द्रसूर्याणाम् ॥२३॥ केन वद्धते चन्द्रः, परिहानिः केन भवति चन्द्रस्य । कालो वा ज्योत्स्ना वा, केनानुभावेन चन्द्रस्य ॥२४॥ कृष्णं राहु विमानं, नित्यं चन्द्रेण भवति अविरहितम् । चतुरगुलमसंप्राप्त हित्वा चन्द्रस्य तत् चरति ॥२५॥ द्वापष्टिं द्वाषष्टि दिवसे दिवसे तु शुक्लपक्षस्य । यत् परिवर्वते चन्द्रः क्षपयति तेनैव कालेन ॥२६॥ पञ्चदश भागेन च चन्द्रं पञ्चदशमेव तत् वृणुते। पञ्चदश भागेन च पुनरपि तदेव अपकाम्यति ॥२७॥ एवं वर्द्धते चन्द्रः, परिहानिरेव भवति चन्द्रस्य । कालो वा ज्योत्स्ना वा, एवमनुभावेन चन्दस्य ॥२८॥ अन्तर्मनुष्यक्षेत्रे भवन्ति चारोयगास्तु उपपन्ना । पञ्चविधा ज्योतिष्काः, चन्द्राः सूर्या ग्रहगणाश्च ॥२९। तेन परं यानि शेषाणि चन्द्रादित्य ग्रहतारानक्षत्राणि । नास्ति गतिर्नापि चारः, अवस्थितानि