SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ चन्द्रज्ञप्तिप्रकाशिका टीका प्रा०१-३ सू०७ सूर्यपरिभ्रमणविचारः ४७ सर्वाभ्यन्तरमण्डलान्निष्क्रमणकाले मतानि, एतदेव स्पष्टयति- 'जाई अप्पणा चेव' यानि - आत्मनैव स्वयं पूर्व चिण्णाई' चीर्णानि तानि 'सूरिए' सूर्यः भारतः सूर्यः 'पडिचर इ' प्रतिचरति । अत्र चतुरशीत्यधिकशतसंख्यकेषु सर्वेषु मण्डलेषु सर्वबाह्यमण्डलात् शेषाणि त्र्यशीत्यधिकशतसंख्यकानि मण्डलानि सन्ति, तानि च प्रत्येकं द्वितीयषण्मासमध्ये द्वाभ्यामपि सूर्याभ्यां परिभ्रम्यन्ते, अर्थात् द्वितीयषण्मासे तेषां त्र्यशीत्यधिकशतसंख्यक मण्डलानां मध्ये एकस्मिन् एकस्मिन् मण्डले द्वावपि सूर्ये परिभ्रमतः । सर्वेष्वपि दिग्विभागेषु प्रत्येकस्मिन् दिग्विभागे एकस्मिन् मण्डले एक एव सूर्यः परिभ्रमति, द्वितीये तु अपरः सूर्यः । एवं सर्वान्तिममण्डलपर्यन्तमपि परिभावनीयम् । तत्र द्वितीयषण्मासे दक्षिणपौरस्त्ये दिविभागे भारत: सूर्यो द्विनवतिसंख्यकानि मण्डलानि परिभ्रमति, ऐरवतश्च सूर्यएकनवतिसंख्यकानि मण्डलानि परिभ्रमति । उत्तरपाश्चात्ये दिगविभागे च ऐरवतः सूर्यो द्विनवतिसंख्यकानि मण्डलानि परिभ्रमति भारत: सूर्यश्च - एकनवतिसंख्यकानि मण्डलानि परिभ्रमति । एवं व्यशीत्यधिकशतसंख्यकेषु सर्वेष्वपि मण्डलेषु द्वयोः सूर्ययोः परिभ्रमणं भवतीति । एतच्च पट्टिकादौ मण्डलानि विलिख्य परिभावनीयम् । अतएव - म- दक्षिणपौरस्त्ये द्विनवतिसंख्यकानि मण्डलानि, उत्तरपाश्चात्ये च एकनवतिसंख्यकानि मण्डलानि भारतः सूर्यः स्वयं पूर्वं चीर्णानि प्रतिचरतीति । तदेवं भारतसूर्यस्य स्वचोर्णप्रति - चरणपरिमाणं प्रदर्शितम् अथ च तस्यैव भारतसूर्यस्य परचीर्णप्रतिचरणपरिमाणं प्रदर्शयति'तन्थ णं अयं भारहे' इत्यादि । 'तत्थ' तत्र मध्यजम्बूद्वीपे 'अयं' अयं प्रस्तुत प्रकरणोल्लि खितो जम्बूद्वीपसम्बन्धीभरत क्षेत्र प्रकाशकारित्वाद् भारतः सूर्यः 'जंबुद्दीवस्स दीवस्स' जंबू.. द्वीस्य द्वीपस्य 'पाईणपडीणाययाए प्राचीप्रतीच्यायतया पूर्वपश्चिमदीर्घया, तथा 'उदीणदाहिणाययाए' उदीचीदक्षिणायतया उत्तरदक्षिणदीर्घया 'जीवाए' जीवया जीवासादृश्यात् जीवा तया दवरिकयेत्यर्थः 'मंडल' मण्डलं चतुर्भिर्विभक्तं तत्तन्मण्डलं 'चउबीसएणं सरणं' चतुर्विंशतिकेन चतुर्विंशत्यधिकेन शतेन शतभागेन 'छेत्ता' छित्त्वा - हृत्वा 'उत्तरपुरत्थिमिलंसि' उत्तरपौरस्त्य उत्तरपूर्वदिग् विभागे ईशानकोणे इत्यर्थः 'चउब्भागमंडलंसि' चतुर्भागमण्डले मण्डलस्ये चतुर्थे भागे तेषामेव द्वितीयानां षण्णां मासानां मध्ये 'एरवयस्स सूरियस्स' ऐरवतस्य सूर्यस्य 'बाणउहं' द्वानवति द्विनवतिसंख्यकानि 'सूरियमयाई' सूर्यमतानि ऐश्वतसूर्येण पूर्व निष्क्रमणकाले मतानि मती कृतानि - जाई' यानि 'सूरिए' सूर्यः भारतः सूर्यः 'परस्स चिण्णाई' परस्य ऐरवतस्य सूर्यस्य द्वारा 'चिण्णाई' चीर्णानि निष्क्रमणकाले तानि 'पडिचरइ' प्रतिचरति, तथा 'दाहिणपच्चत्थिमिल्लं सि' दक्षिणपाश्चात्ये नैऋतकोणे च 'चउन्भागमं - डलंसि' चतुर्भागमण्डले मण्डलस्य चतुर्थे भागे 'एक्काणउई' एकनवतिं एकनवतिं संख्यकानि 'रियमया सूर्यमतानि एरवतसूर्यमतानि ऐरवतसूर्य सम्बन्धीनि 'जाई' यानि 'सूरिए' सूर्यः
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy