SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टोका प्रा.१८. स.१२ ताराणां परस्परमन्तरनिरूपणम् ६४९" व्याख्या—'ता एएसि ' इति एतेषां चन्द्रसूर्यग्रहनक्षत्रताराणां मध्ये के ऽल्पर्द्धयः के महर्द्धय इति 'प्रश्नसूत्रं सुगमम् । भगवानाह 'ता ताराहिंतो' इत्यादि, ताराभ्यः ताराविमानस्थितदेवेभ्यः तारादेवानामपेक्षया नक्षत्राणि नक्षत्रविमानस्थिता देवा महर्द्धिकाः । नक्षत्रेभ्यो ग्रहा महर्द्धिकाः । ग्रहेभ्यः सूर्या महद्धिकाः सूर्येभ्यश्चन्द्रा महर्द्धिकाः । सर्वेभ्योऽल्पर्द्धिकास्ताराः । सर्वेभ्यो महर्द्धिकाश्चन्द्रा इति ॥सू० ११॥ अथ ताराणां परस्परमन्तरविषयं सूत्रमाह 'ता जबुद्दीवेणं' इत्यादि मूलम्–ता जंबुद्दीवेणं दीवे भंते तारा रूवस्स य एस ण केवइए अबाहाए अंतरे पण्णत्ते ? दुविहे अंतरे पण्णत्ते, तं जहा-वाघाइमे य । निवाघाइमेय तत्थ णं जे से बाघाइमे से णं जहण्णेणं दोण्णि छावट्ठाइं जोयणसयाइं उक्कोसेणं बारस जोयण सहस्साइं दोण्णि बायालाई जोयणसयाइं तारारुवस्स य तारारूवस्स य अवाहाए अंतरे पण्णत्ते । तत्थ णं जे से णिव्याघाइमे से जहण्णेणं पंच धणुसयाई, उक्कोसेणं अद्ध जोयणं तारा रूवस्स य तारारूवस्स य अबाहाए अंतरे पण्णत्ते ॥सू०१२॥ छाया-तावत् जम्बूद्वीपे खलु द्वीपे भदन्त ! तारारूपस्य च एतत् खलु कियत्कम् अबाधया अन्तरं प्रज्ञप्तम् ? द्विविधमन्तरं प्रक्षप्तं, तद्यथा-व्याघातिमं च नियाघातिमं च । तत्र स्खलु यत्तद् व्याघातिमं तत् जघन्येन द्वे षट् षष्ठे (षट्पष्टयधिके) योजनशते, उत्कर्षेण द्वादश योजन सहस्राणि द्वे द्विचत्वारिंशे (द्विचत्वारिंशदधिके) योजनशते तारा रूपस्य तारा रूषस्य च अबाधया अन्तरं प्रज्ञप्तम् । तत्र खल यत्तद निर्व्याघातिम" तत् जघन्येन पञ्चधनुः शतानि उत्कर्षेण अर्द्धयोजनं तारारूपस्य तारारूपस्य च अबाधया अन्तरं प्रज्ञप्तम् ॥सू० १२॥ व्याख्या-'ता जम्बूद्दीवेणं' इत्यादि प्रश्नसूत्रं सुगमम्, अत्र मध्यजम्बूद्वीपे ताराणामन्तरं । कियत्कं अबधया प्रज्ञप्तम् भगवानाह-'दुविहे अंतरे पण्णत्ते' अन्तरं द्विविधं प्रज्ञप्तम् व्याघातिमं निर्व्याघातिमं चेति । तत्र यद् व्याघातिममन्तरं तत् जघन्येन 'दोन्नि छावहाइं जोयणसयाई' षट्पष्टयधिके द्वे योजनशते षट्पष्टयधिकद्विशतयोजनपरिमितमन्तरमबाधया अव्यवहितेन प्रोक्तम्। उत्कर्षेण च 'बारस जोयणसहस्साई दोण्णि बायालाई जोयणसयाई' द्वादश योजनसहस्राणि द्वे योजनशते द्विचत्वारिंशदधिके (१२२४२) ५तत्परिमितमन्तरमुत्कृष्टेन एकस्मात्तारारूपाद् द्वितीयस्य : तारारूपस्य अबाधया व्यवधानेनान्तरं प्रोक्तम् । 'तत्थ णं' इत्यादि, तत्र खलु यद् निर्व्याघातिममन्तरं । तत् 'जहण्णेणं पंचधणुसयाई' जघन्येन पञ्चशतधनूंषि पञ्चशतधनुःपरिमितम् । 'उक्कोसेणं अद्धजोयणं' उत्कर्षेण अर्द्धयोजनपरिमितमन्तरं तारारूपस्य तारारूपस्य च एक द्वितीययोः । परस्परमन्तरमबाधया प्रज्ञप्तम् ॥ अत्रेयं भावना-व्याघातिमनिर्व्याघातिमयोरयमर्थः व्याहननं ।
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy