SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टोका प्रा० १-३सू०७ सूर्यपरिभ्रमणविचारः ४५ मण्डलं चतुर्विशतिकेन शतेन छित्त्वा उत्तरपौरस्त्ये चतुर्भागमण्डले द्वानवति सूर्यमतानि यानि सूर्यः परस्य चोणानि प्रतिवरति, दक्षिणपाश्चात्ये चतुर्भागमण्डले एकनवर्ति सूर्यमतानि यानि सूर्यः परस्यैव चीर्णानि प्रतिचरति । तत्रायम् ऐरवतिकः सूर्यः जम्बूद्वीपस्य द्वीपस्य प्राचीप्रतीच्यायतया उदीचादक्षिणायतया जीवया मण्डलं चतुर्विशतिकेन शतेन छित्वा उत्तरपाश्चात्त्ये चतुर्भागमण्डले द्वानवति सूर्यमतानि यानि सूर्य आत्मनैव चीर्णानि प्रतिचरति, दक्षिणपौरस्त्ये चतुर्भागमण्डले पकनवतिं सूर्यमतानि यानि सूर्यः आत्मनैव चीर्णानि प्रतिचरति । तत्र खलु अयम्-ऐरवतिकः सूर्यः भारतकस्य सूर्यस्य जम्बूद्वीपस्य द्वीपस्य प्राचीप्रतीच्यायतया उदीचीदक्षिणायतया जीवया मण्डलं चतुर्विशतिकेन शतेन छित्त्वा दक्षिणपाश्चात्ये चतुर्भागमण्डले द्वानवति सूर्यमतानि यानि सूर्यः परस्य चीर्णानि प्रतिचरति, उत्तरपौरस्त्ये चतुर्भागमण्डले एकनवति सूर्यमतानि यानि सूर्यः परस्यैव चीर्णानि प्रतिचरति ततो निष्क्रामन्तौ खल पत्तौ द्वौ सूर्यो नो अन्योन्यस्य चीर्ण प्रतिचरतः । “शतमेकं चतुश्चत्वारिंशम्" । गाथा । स्त्र ॥७॥ ॥ प्रथमप्राभृतस्य तृतीयं प्राभृतप्राभृतं समाप्तम् ।। १-३ ॥ व्याख्या-'ता' तावत् 'किं' किम् कथं केन प्रकारेण 'ते' तव मते चिण्णं पडिचरई' 'कि चीर्ण पतिचरति' इति 'आहिय' इति आख्यातं कथितम् ? इति-एतद्विषयं 'चएज्जा' वदेत् वदतु कथयतु भगवान् ? इति प्रश्न:-उत्तरमाह-'तत्थ खलु' इत्यादि । 'तत्थ खल' तत्र खल 'इमे' इमौ शास्त्रप्रसिद्धौ ‘दुवे' द्वौ 'सरिया' सूn 'पण्णत्ता' प्रज्ञप्तौ कथितौ पूर्वतीर्थकरगणधरैरिति, 'तं' जहा' तद्यथा तौ यथा-भारहए चेव सुरिए' भारतकश्चैव यः सर्वबाह्यमण्डलस्य दक्षिणात्येऽधमण्डले चारं चरितुं समारभते स भरतक्षेत्रप्रकाशकत्वाद् भारतः सूर्यः, 'एरवए चेव सूरिए' ऐरवतश्चैव यस्तस्यैव सर्वबाह्यमण्डलस्य औत्तरेऽर्धमण्डले चारं चरति स ऐरवतक्षेत्रप्रकाशकत्वाद ऐरवतः सूर्यः २ । 'ता' ततः 'एते गं' एतौ भरतैरवतक्षेत्रे चारिणौ खलु 'दुवे सूरिया' द्वौ सूयौँ पत्तेयं २ प्रत्येकं २ एकैकत्वमाश्रित्य 'तीसाए तीसाए' त्रिंशता त्रिंशता मुहत्तेहि' मुहूर्तेः 'एगमेगं' एकैकं 'अद्धमंडलं' अर्धमण्डलं 'चरंति' चरतः परिभ्रमतः 'सट्टीए सट्ठीए षष्ट्या षष्ट्या -पष्टिषष्टिसंख्यकैः ‘मुहुत्तेहि' मुहूर्तेः 'एगमेगं' एकैकं 'मंडलं' मण्डलं 'संघाएंति' संघातयतः सार्द्ध मेव परिपूरयतः, न तु पूर्वापरेण 'तो' तत्र-एकसूर्य. संवत्सरमध्ये 'निक्खममाणा खलु' निक्रामन्तौ सर्वाभ्यन्तरमण्डलान्निस्सरन्तौ खलु “एते दुवे सूरिया' एतौ द्वौ सूर्यो ‘णो' नौ नव 'अण्णमण्णस्स' अन्योन्यस्य परस्परस्य 'चिणं' चीर्ण तत्तद्वारा पूर्व सेवितं क्षेत्रं 'पडिचरंति' प्रतिचरतः अपरोऽपरेण चीण क्षेत्रे, अन्योऽन्येन च चीर्णे क्षेत्रे तौ न परिभ्रमतइत्यर्थः, ( इदं जम्बूद्वीपचित्रवशादवसे यम् ) किन्तु 'पविसमाणा' प्रविशन्तो सर्वबाह्यमण्डलादभ्यन्तरं चतुरशीत्यधिकशततमं मण्डलं गच्छन्तौ खलु - एते दुवे सूरिया एतौ द्वौ सूर्यो 'अण्णमण्णस्त' अन्योन्यस्य 'चिण्णं चीर्ण तत्तद्वारा पूर्व सेवितं क्षेत्र
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy