SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रज्ञप्तिसूत्रे अणवोऽपि 'तुल्लावि' तुल्या अपि सन्ति । हे भगवान् ! किं कारणमत्र यत् चन्द्रसूर्याणामधस्तनव्यवस्थिताः, समश्रेणि व्यवस्थिताः उपरिव्यस्थितास्त्रिविधा अपि तारारूपबिमानाधिष्ठातारो देवाः अणवोऽपि इत्यादिना लघवोऽपि तुल्या अपि समान द्यत्यादिमन्तः ? इति कथयतु इति गौतमेन प्रश्ने कृते भगवान् गौतमाय अणुत्वतुल्यत्वविषयकं कारणं प्रदर्शयति-'ता जह-जह' इत्यादि 'ता' तावत् हे गौतम ! 'जहा-जहाणं' यथा यथा खलु 'देवाणं' तेषां देवानां तवणियमबंभचेराई तपोनियमब्रह्मचर्याभिप्राग्भवे तपः षष्ठाष्टमादिकं बाह्याभ्यन्तरभेदभिन्नं द्वादशविधं वा नियमः-अभिग्रहादिरूपः, ब्रह्मचर्यम् अब्रह्मत्यागः, देशतः सर्वतोवा 'उस्सियाई' उच्छ्रितानि उत्कटानि उपलक्षणात् अनुत्कटानि वा येषां यादृशानि चारितानि आचरितानि पालितानि त्रिकरणत्रियोगादि प्रकारमाश्रित्य भवन्ति 'तहा तहाणं' तथा तथा तत्तत्प्रकारेण तपोनियमादिपालनानुसारेण खलु हे गौतम ! 'तेसिं देवाणं' तेषां देवानाम् ‘एवं भवई' एवम् अनेन प्रकारेण अल्पत्यादिकं तुल्यद्यत्यादिकं च 'भवइ' भवति । तदेवाह-'तं जहा' तद्यथा-'अणुत्तेवा तुल्लत्तेवा' अणुत्वं-वा तुल्यत्वं वेति, अयं भावः-यैः पूर्वभवे तपोनियमब्रह्मचर्याणि पालितानि त्ववश्यमेव तेन कारणेन देवत्वं प्राप्तं किन्तु तानि तैश्चन्द्रसूर्यापेक्षया मन्दानि पालितानि ततस्तै तारारूप विमानाधिष्ठातारो देवो भूत्वा चन्द्रसूर्यदेवानां यतिविभवाद्यपेक्षया होना जाताः । यैस्तु भावन्तरे तपो नियमब्रह्मचर्याणि चन्द्रसूर्याणां प्रायः सदृशान्युत्कटानि पालितानि ततस्ते तारारूप विमानाधिष्ठातारो भूत्वा चन्द्रसूर्याणां द्युतिविभवादिना तुल्या जाताः । उचितमेवैतत् दृश्यन्ते हि मनुष्यलोकेऽपि केचित्पूर्वभवसश्चित पुण्यप्राग्भारा जना राजत्वं नापि प्राप्तास्तथापि राज्ञा सह तुल्य द्युतिविभवा भवन्तीति । 'ता' तस्मात् कारणात् ‘एवं णं' एवं खलु 'चंदिमसूरियाणं देवाणं' चन्द्रसूर्याणां देवानां 'हिट्ठपि तारारूवा अणुपि तुल्लावि' अधस्तना अपि तारारूपाः अणवोऽपि तुल्या अपि 'तहेव' तथैव पूर्वोक्त वदेवात्र वाच्यम् , कियत्पर्यन्तमित्याह-'जाव' इत्यादि, 'जाव' यावत् 'उपिपि तारारूवा अणुपि तुल्लावि' उपरितना अपि तारारूपा अणवोऽपि तुल्या अपि । यावत्पदेन 'समंपि तारारूवा अणुपि तुल्लावि' समश्रेणि व्यवस्थिता अपि तारारूपा अणवोऽपि तुल्या अपि सन्ति, इति, संग्राह्यम् ॥सू०२॥ अथ चन्द्रस्य परिवार, मन्दरपर्वतात् लोकान्ताच्च कियदन्तरेण ज्योतिश्चक्रं चारं चरतीति च प्रदर्शयति-'ता एगमेगस्स गं' इत्यादि । मूलम् --ता एगमेगस्स णं चंदस्स देवस्स केवड्या गहा परिवारो पण्णत्तो ? केवइया णक्खत्ता परिवारो पण्णत्तो ? केवइया तारा परिवारो पण्णत्तो, ? एगमेगस्स णं चंदस्स
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy