________________
चन्द्रशतिप्रकाशिका टीका प्रा. १६. सू. १
चन्द्रस्य ज्योत्स्नालक्षणादिनिरूपणम् ६२५ कोऽर्थः किं परस्परं भिन्नोऽर्थः उताभिन्नः ?, स चार्थः 'किलक्खणे' किं लक्षणः किं स्व पोऽस्ति ? लक्ष्यते - तदन्यव्यवच्छेदेन ज्ञायते येन तत्-लक्षणम् असाधारणं स्वरूपं किं लक्षणं यस्य स किं लक्षणः कीदृगलक्षणवान् किं स्वरूपोऽयमर्थः ? इनि प्रश्नः । भगवानाह - 'ता एगट्ठे एगलक्खणे' तावत् एकार्थः एकलक्षणः चन्द्रलेश्या इति बदद्वयमपि एकार्थकम् एकलक्षणम् अस्ति अनयोर्द्वयोः पदयोः आनुपूर्व्याऽनानुपूर्व्या वा यथा कथञ्चिदपि व्यवस्थितयोरेक एव अभिन्न एव अर्थो भवेत् न तु भिन्नः, चन्द्रलेश्या इति कथयतु, अथवा ज्योत्स्ना इति वा कथयतु नात्र कोऽपि भेद इति भावः । अथ सूर्य ... विषयं प्रश्नमाह - 'ता सूरियलेस्सा इ य' इत्यादि, 'ता' तावत् 'सूरियलेस्सा इ य आयवे.. इय, आयवे. इ य सूरियस्लेसा ई य' सूर्यलेश्या इति च आतप इति च आतप इति च सूर्यलेश्या इति च, अनयोरपि चन्द्रलेश्या ज्योत्स्ना पदयोरिव एकोऽर्थः एक क्ष चेत्युत्तरम् । एवं छायाऽन्धकाररूपयोः पदयोरपि एकार्थत्वमेकलक्षणत्वमपि भावनीयमिति स्पष्टार्थत्वान्नं व्याख्यायते इति ॥ सू० ॥ १ ॥
इति श्री जैनाचार्य जैनधर्मदिवाकर पूज्य श्री घासीलाल व्रतिविरचितायां चन्द्रप्रज्ञप्तिसूत्रस्य चन्द्रज्ञप्तिप्रकाशिकायां व्याख्यायां
षोडशं प्राभृतं समाप्तम् ॥१६॥
3
। अथ सप्तदशं प्राभृतम् ।
व्याख्यातं . षोडशं प्राभृतम् तत्र चन्द्रलेश्याज्योत्स्नायाश्च सूर्यस्य आतपस्य च अन्धकारस्य छायायाश्च परस्परमभेदः प्रतिपादितः । अथ सप्तदशं प्राभृतं व्याख्यायते, अस्य चायमर्थाधिकारः पूर्वं द्वारगाथासु 'चवणोववाए' इति च्यवनोपपातौ वक्तव्यौ इति कथितं तद्विषयकं पञ्चविंशतिप्रतिपत्याद्यात्मकं सूत्रमाह- 'ता कहं ते चवणोववाया' इत्यादि ।
मूलम् -- ता कहं ते चवणोववाया आहिया । ति वएज्जा, तत्थ खलु इमाओ पणवीसं पडिवत्तीओ पण्णत्ताओ । तं जहा - तत्थेगे एवमाहंसु ता अणुसमयमेव चदिम सूरिया अण्णे चयंति अण्णे उववज्जंति एगे एवमाहंसु १ एगे पुण एवमाहंस ता अणुमुत्तमेव चंदिम सूरिया अण्णे चयंति अण्णे उववज्जति एगे एवमामु २ | एवं जहेव ट्ठा तहेव जाव ता एगे पुण एवमाहंसु - ता अणुओसप्पिणी उस्सपिणीमेव चंदिमसूरिया अण्णे चयंति अण्णे उववज्जति एगे एवं मासु २५ । वयं पुण एवं वयामो- ता चंदिमसूरियाणं देवा महिइढिया महाजुइया महाबला महानसा महा
७९