________________
चन्द्रशतिप्रकाशिकाटीका. प्रा. १५ सु. ४ अहोरात्राद्याश्रित्य चन्द्रादीनां मण्डलचारम् ६२३
साम्प्रतं नक्षत्रस्य मण्डलचारमाह - ' ता जुगेणं' इत्यादि, 'ता' तावत् 'जुगेण ' एकेन युगेन 'णक्खत्ते' नक्षत्रं 'कइमंडालाई चरइ' कति मण्डलानि चरति ? भगवानाह 'ता' तावत् 'अट्ठारस पणतीसाई दुभाग मंडलसयाई' अष्टादशपञ्चत्रिंशदधिकानि द्विभागमण्डलशतानि-द्वितीयभागमण्डलशतानि - एकस्य मण्डलस्य द्वौ भागौ अर्द्धार्द्धरूपो कर्त्तव्यौ द्वयोर्मध्यात् एकमर्द्धभागं त्यक्त्वा द्वितीयोर्द्धभागोऽत्र गृह्यते ततो द्विभागमण्डलशतानीतिअर्द्धमण्डलशतानि पञ्चत्रिंशदधिकानि अष्टादश शतानि अर्द्धमण्डलानां (१८३५) 'चरइ' चरति । तथोहि-नक्षत्र मष्टावतिशताधिकेन एकेन शतसहस्रेण (१०९८०० ) प्रवि भक्तस्य मण्डलस्य सम्बन्धिनः पञ्चत्रिंशदधिकाष्टादशशत संख्यकान् एकेन मूहूर्त्तेन गच्छति, युगे च मुहूर्त्ताः सर्व संख्यया नवशताधिकानि चतुष्पञ्चाशत् सहस्त्राणि (५४९००) भवन्ति, तत एतैर्नवशताधिकैश्चतुष्पञ्चाशत्सहस्त्रैः (५४९००) पञ्चत्रिंशदधिकाष्टादशशतानि (१८३५) गुण्यन्ते, जायन्ते दश कोटयः सप्तलक्षाः एकचत्वारिंशत्सहस्राणि पञ्चशतानि (१००७४१५०० ) इह चार्द्ध मण्डलानि ज्ञातुमिष्टानि ततः अष्टा नवतिशताधिकस्य एकस्य शतसहस्रस्य (१०९८००) अर्जे कृते यानि नबशताधिकानि चतुष्पञ्चाशत्सहस्राणि (५४९००) भवन्ति तैर्भागो ह्रियते, हृते च भागे लभ्यन्ते - पञ्चत्रिंशदधिकानि-अष्टादशशतानि (१८३५) यथोक्तानि अर्द्ध मण्डलानीति ।
(१८३५) भागान्
साम्प्रतं सकल प्राभृतमुपसंहरन्नाह - 'इच्चेसा मुहुत्तगई' इत्यादि 'इच्चेसा' इत्येषाइति- एवमुक्तेन प्रकारेण एषा - अनन्तरोदिता ' मुहुत्तगई' मुहूर्त्तगतिः प्रतिमुहूर्ते चन्द्र सूर्य नक्षत्राणां गतिपरिमाणं, तथा 'रिक्खाइमासराईदिय जुगमंडलपविभत्ता' ऋक्षादिमास रात्रिन्दिवयुगमण्डलप्रविभक्ता, तत्र ऋक्षादिमासानू - नक्षत्र-चन्द्र सूर्यामिवर्द्धितमासान्, तथा रात्रिन्दिवानि, तथा युगं चाधिकृत्य मण्डलानां प्रविभक्तिः पृथक् पृथकत्वेन मण्डलसंख्या प्ररूपणा रूपः प्रविभागः, तथा 'सिग्घगईवत्थू' शीघ्र गतिरूपं वस्तु च इत्येतत् पञ्चदशे प्राभृते 'आहियं' आख्यातम् ' तिबेमि' इति ब्रवीमि यथा भगवन्मुखात् श्रुतं तथा ब्रवी मि कथयामि, इति सुधर्मस्वामिवचनम् । इदं च भगवद्वचनमतः पूर्वोक्तं सर्वं सम्यक्तया श्रद्धेयमिति भावः ॥ सू० ४॥
.
इति श्री जैनाचार्य - जैनधर्मदिवाकर पूज्य श्रीघासीलालब्रतिविरचितायांश्री चन्द्रप्रज्ञप्ति सूत्रस्य चन्द्रज्ञप्तिप्रकाशिकायां व्याख्यायां पञ्च
दशं प्राभृतं समाप्तम् ॥ | श्री रस्तु |
१५ ॥