SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रज्ञाप्तस्त्रे राशिः सप्त षष्टयधिकत्रिशत भागकरणार्थ सप्तषष्टयधिकैत्रिभिः शतैः (३६७) गुण्यते जातानिषड् लक्षाणि, एकोनसप्ततिः सहस्राणि, सप्तशतानि पञ्चसप्तत्यधिकानि (६६९७७५), ततश्छेदकराशिना पञ्चत्रिंशदधिकाष्टादशशतरूपेण (१८३५) भागो हियते, लभ्यन्ते पञ्च षष्टयधिकानि त्रोणि शतानि (३६५) अथवा छेद्यछेदकराश्योः पञ्चभिरपवर्त्तना क्रियते, तत्र छेद्यराशेः (१८२५) पञ्चभिरपवर्तना करणे लब्धानि पञ्चषष्टयधिकानि त्रीणि शतानि (३६५), छेदकराशेः (१८३५) पञ्चभिरपवर्तनाकरणे लब्धानि सप्तषष्टयधिकानि त्रीणि शतानि (३६७), तत आगतम् एकेन परिपूर्णेन रात्रिन्दिवेन द्वितीयस्य रात्रिन्दिवस्य च सप्तषष्टयधिकत्रिंशतभागविभक्तस्य मध्यात् द्वाभ्यां-भागाभ्यामूनाभ्याम् इति पञ्चषष्टयधिकत्रिशतभाग (१२६१) नक्षत्र मेकं मण्डलं चरतीति । साम्प्रतं चन्द्रादीनां युगविषयकं मण्डलचारमाह-तत्र प्रथमं चन्द्रस्य मण्डल चार माह-'ता जुगेणं' इत्यादि, 'ता' तावत् 'जुगेणं' एकेन युगेन एकं युगमधिकृत्य एकस्मिन् युगे इत्यर्थः 'चंदे' चन्द्रः 'कइ मण्डलाइं चरइ' कति मण्डलानि चरति ? भगवानाह-'ता' तावत् 'अट्ठचुलसीयाई मंडलसयाई' अष्ट चतुरशीतानि चतुरशीत्यधिकानि मण्डलशतानि चतुरशीत्यधिकानि अष्टशतानि (८८४) मण्डलानां 'चरइ' चरति । तथाहिचन्द्रः अष्टानवतिशताधिकेन एकेन शतसहस्त्रेण (१०९८००) प्रविभक्तस्य मण्डलस्य अष्टषष्टयधिकसप्तदशशतसंख्यकान् (१७६८) भागान् एकेन मुहूर्तेन गच्छति त्रिंशदधिकाष्टादशशत (१८३०) दिवसात्मके युगे च दिवसस्य त्रिंशन्मुहूर्तात्मकत्वेन मुहूर्ताः सर्व संख्यया नवशताधिकानि चतुष्पञ्चाशत्सहस्राणि (५४९००) भवन्ति, ततः अष्टषष्टयधिकानि सप्तदश शतानि (१७६८) नवशताधिकैश्चतुः पञ्चाशत्सहस्रैः (५४९००) गुण्यन्ते जायन्ते-नव कोटयः, सप्ततिर्लक्षाः, त्रिषष्टिः सहस्राणि, द्वेशते (९७०६६२००), ततोऽस्य राशेः अष्टानवति शताधिकेन एकेन शतसहस्रेण (१०९८००) मण्डलानयनाथै भागो हियते, लब्धानि चतुरशीत्यधिकानि अष्ट मण्डलशतानि (८८४) इति । . अथ सूर्यस्य मण्डलचारमाह-'ता जुगेणं' इत्यादि, 'ता' तावत् 'जुगेणं' एकेन युगेन 'सूरिए' सूर्यः 'कइ मंडलाइं चरइ' कति मण्डलानि चरति ? भगवानाह-'ता' तावत् णव पण्णरसमंडलसयाई' नव पञ्चदशाधिकानि मण्डलशतानि (९१५) चरइ' चरति । तथाहि-यदि द्वाभ्यामहोरात्राभ्यामेकं सूर्यमण्डलं लभ्यते तदा सकल युग भाविभिस्त्रिंशदधिकाष्टादशशतैरहोरात्रैः कति मण्डलानि लभ्यन्ते ? राशित्रयस्थापना-२।१।१८३०। अत्रान्त्येन राशिना मध्योराशिगुणितो जातस्तावानेव (१८३०), अत्याधेन राशिना द्विकरूपेण भागे हृते लभ्यन्ते पञ्चदशाधिकानि नवशतानि (९१५) ।
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy