________________
चन्द्राप्तिप्रकाशिका टोका प्रा.१५ सू.४ अहोरात्राद्याश्रित्य चन्द्रादीनां मण्डलचारम् ६२१, कृत्वा तन्मध्यात् एकत्रिंशतं भागान् ‘चरइ' चरति । त्रैराशिकं क्रियते, तथाहि-यदि चतुरशीत्यधिकाष्टाशतैश्चन्द्रमण्डलैः (८८४) त्रिंशदधिकाष्टादशशताहोरात्राणि (१८३०) लभ्यन्ते तदा एकेन मण्डलेन कति अहोरात्राणि लभ्यन्ते ? गशित्रयस्थापना-८८४।१८३०।१। अत्रापि अन्त्येन राशिना मध्य राशिं गुणयित्वा: आयेन राशिना भागो हरणीयः, हृतेच भागे लब्धौ द्वावहो । रात्रौ (२), शेषास्तिष्ठन्ति द्वाषष्टिः (६२) तत छेडछेदकराश्योः (a ) द्विकेनापवर्तना
छेद्याछे
क्रियते, लभ्यन्ते एकत्रिंशद् भागाः द्विचत्वारिंशदधिकचतुः शतभागसम्बन्धिनः (३१)। तत आगतम्-चन्द्र एकैकं मण्डलं द्विचत्वारिंशद्धिकचतुःशतभागसत्कैकत्रिंशद्भागसहिताभ्यां द्वाभ्यामहोरात्राभ्यां चरतीति ।
• अथ मण्डलविषयां सूर्यचाराहोरात्रसंख्यामाह- 'ता एगमेगं' इत्यादि, 'ता' तावत् 'एगमेगं मंडलं' एकैकं मण्डलं 'मूरिए' सूर्यः 'कइहि अहोरत्तेईि चरई' कतिभिरहोरात्रैश्चरति ! भगवानाह-'दोहि अहोरत्तेहिं' द्वाभ्यामहोरात्राभ्यां 'चरइ' चरति । यतो हि एकस्य युगस्य : अहोरात्राणि त्रिंशदधिकाष्टादशशतानि (१८३०) सूर्य मण्डलानि च पञ्चदशोत्तर नव शतानि (९१५) इति युगाहोरात्रेभ्यः सूर्य मण्डला नामर्द्धत्वात् द्वाभ्यामहोरात्राभ्यामेकं मण्डलं चरतीति ।
अथ नक्षत्रस्य मण्डलविषयामहोरात्रसंख्यामाह- 'ता एगमेगं' इत्यादि 'ता' तावत् 'एगमेगं मंडलं' एकैकं मण्डलं 'णक्खत्ते' नक्षत्रं 'कइहिं अहोरत्तेहिं चरइ' कतिभिरहोरात्रैश्चरति ? भगवानाह-'ता' तावत् 'दोहिं अहोरत्तेहिं द्वाभ्यामहोरात्राभ्याम् ? 'दोहिं भागेहिं ऊणेहिं' द्वाभ्यां भागाभ्यां ऊनाभ्याम् , 'तिहि सत्त सडेहि सएहिं राइंदियं
छेत्ता' सप्तषष्टयधिकैस्त्रिभिः शतैः (३६७) रात्रिन्दिवं छित्त्वा, एकस्य रात्रिन्दिवस्य सप्तषष्टयधिकशतत्रयभागान् कृत्वा तन्मध्याद् द्वाभ्यां भागाभ्यां हीनाभ्यां द्वाभ्यामहोरात्राभ्यां (१९७५) 'चरइ' चरति । तथाहि-एकस्मिन् युगे नक्षत्रमण्डलानि सार्द्धसप्तदशाधिकानि नव शतानि (९१७॥) एषामर्द्धमण्डलकरणार्थ तानि द्वाभ्यां गुण्यन्ते जातानि पञ्चत्रिंशदधिकानि-अष्टादश शतानि (१८३५), ततो युगाहोरात्राण्यपि द्वाभ्यां गुण्यन्ते, जातानि षष्टयधिकानि षट् त्रिंशच्छतानि (३६६०) ततस्त्रैराशिकं क्रियते, तथाहि-यदि पञ्चत्रिंशदधिकाष्ठा . दश शतैर्नक्षत्रमण्डलैः षष्टयधिक षट् त्रिंशच्छतानि रात्रिन्दिवानी लभ्यन्ते तदा एकेन मण्डलेन कति रात्रिन्दिवानि लभ्यन्ते ? राशित्रयस्थापना-१८३५।३६६०।१। अत्रान्येन राशिना मध्यराशिगुणितो जातस्तावानेव (३६६०), अस्य आयेन राशिना (१८३५) भागो हियते, लब्धमेकं रात्रिन्दिवम् , शेषाणि स्थितानि पञ्चविंशत्यधिकानि अष्टादशशतानि (१८२५) ततोऽयं
३६५