SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ ६२० चन्द्रप्राप्तिसूत्रे.. राशित्रयस्थापना-(१८३०।१७६८।१। अत्रान्त्येन राशिना मध्यराशिर्गुणितस्तावानेह (१७६८ अस्याधराशिना त्रिंशदधिकाष्टादशशतरूपेण भागो हरणीयः, ततो भाजकराशे र्भाच्य राशिन्यून इति भागं न लभते ततो भाज्यभाजकराश्यो बिकेनापवर्त्तना करणे लभ्यन्ते चतुरशोत्यधिकानि अष्टशतानि (८८४) पञ्चोत्तर नवशत भाग सत्कानि (८८४) तत आगतम्-चन्द्र एकेना ९१५ होरात्रेण एकस्यार्द्धमण्डलस्य पञ्चदशोत्तरनवशतभागेभ्य श्चतुरशीत्यधिकाष्टशतभागान् चरतीति । __ अथ सूर्य विषयकं सूत्रमाह-'ता एगमेगेणं' इत्यादि 'ता' तावत् एगमेगेणं अहोरत्तेणं एकैकेनाहोरात्रेण 'मूरिए' सूर्यः ‘कइ मंडलाई चरइ' कति मण्डलानि चरति ? भगवानाह 'ता' तावत्-'एगं अद्धमंडलं चरइ' एक मर्द्रमण्डलं चरति । नक्षत्रसूत्रमाह 'ताएगमेगेणं' इत्यादि 'ता' तावत् 'एगमेगेणं अहोरत्तेण' एकैके , नाहोरात्रेण ‘णक्खत्ते' नक्षत्र 'कइ मंडलाई चरई' कति मण्डलानि चरति ? भगवानाह 'ता' । तावत् 'एग मंडलं' एक मण्डलम् 'दोहि भागेहिं अहियं' द्वाभ्यां भागाभ्यामधिकम् ‘सत्तहिं. बत्तीसेहिं सरहिं' सप्तभिः द्वात्रिंशैः द्वात्रिंशदधिकैः शतैः (७३२) 'अद्ध मंडलं' छेत्ता, अर्द्धमण्डलं छित्त्वा एकस्यार्द्धमण्डलस्य द्वात्रिंशदधिकानि सप्त शतानि भागानां कृत्वा तन्म मध्याद् द्वौ भागौ 'चरइ' चरति । तथाहि-एकस्मिन् युगे त्रिंशदधिकानि अष्टादशाहोरात्र शतानि ( १८३० ) भवन्ति नक्षत्रमण्डलानि सार्द्ध सप्तदशाधिकानि नवशतानि ( ९१७॥)" भवन्ति एषामर्द्धमण्डलानि द्विगुणानि पञ्चत्रिंशद्धिकानि अष्टादश शतानि (१८३५) जायन्ते तत स्त्रैराशिकं क्रियते यदि त्रिंशदधिकाष्टादशशतै रहोरात्रैः पञ्चत्रिंशदधिकाष्टादशशतानि नक्षत्रमण्डलानि लभ्यन्ते तदा एकेनाहोरात्रेण कति मण्डलानि लभ्यन्ते ? राशित्रयस्थापना१८३०।१८३५।१ अत्रान्त्येन राशिना मध्यराशि गुणितो जात स्तावानेव पञ्चत्रिंशदधिकाष्टादश शतरूपः (१८३५) अस्य आद्येन राशिना त्रिंशदधिकाष्टादशशत रूपेण (१८३०) भागो हियते लब्ध मेकमर्द्ध मण्डलम् शेषा स्तिष्ठन्ति पञ्च, ततः छेद्यराशेः (५) छेदकराशेश्च (१८३०) अर्द्ध तृतीयः २॥ अपवर्तना क्रियते जाते द्वे द्वा त्रिंशदधिकसप्तशत भागे (२) ७३२ __साम्प्रतम्-एकै परिपूर्ण मण्डलं चन्द्रादयः प्रत्येकं कतिभिरहोरात्रैश्चरन्ति ! इत्येतन्नि रूपयति,-तत्र प्रथमं चन्द्रचारमाह-'ता एगोगं' इत्यादि, 'ता' तावत् 'एगमेगं मंडलं' एकैकं परिपूर्ण मण्डलं 'चंदे' चन्द्रः 'कइहिं अहोरत्तेहिं चरइ' कतिभिरहोरात्रैश्चरति ? भगवानाह-'ता' तावत् 'दोहि अहोरत्तेहिं' द्वाभ्याम होरात्राभ्याम् 'एक्कतीसाए भागेहि अहिएहि' एकत्रिंशता भागैरधिकाभ्याम् , 'चउहिं बायालेहिं सएहि' चतुर्भिद्वि चत्वारिंशैः द्विचत्वारिंशदधिकैः शतैः रात्रि न्दिवं 'छेत्ता' छित्त्वा । एकस्याहोरात्रस्य द्विचत्वारिशदधिकचतुः शतभागान्
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy