________________
चन्द्राप्तिप्रकाशिका टीका प्रा १५ सू.४ अहोरात्रायाश्रित्य चन्द्रादीनां मण्डलचारम् ६१९ दोहि अहोरत्तेहिं चरइ दोहिं भागेहिं ऊणेहिं तिहिं सत्तसझेहिं सरहिं राइंदियं छेत्ता। ता जुगेण चंदे कइ मंडलाइं चरइ । ता अट्ट चुलसीयाइं मंडलसयाइं चरइ। ता जुगेणं सुरिए कइ मंडलाई चरइ ? ता णव पण्णरस मंडलसयाइं चरइ । ता जुगेणं णक्खत्ते कइ मंडलाइं चरइ ? ता अट्ठारस पणतीसाइं दुभागमंडलसयाई चरइ । इच्चेसा मुहुत्त गई रिक्खाइ मासराइंदिय जुग मंडल पविभत्ती सिग्ध गइ वत्थु आहिएत्तिबेमि ॥ सू. ० ४॥
___ पण्णरस्समं पाहुडं समत्तं ॥१५॥ छाया-तावत् एकैकेन अहोरात्रेण चन्द्रः कति मण्डलानि चरति ? तावत् एकम् अर्द्धमण्डलं चरति एकत्रिंशता भागैः ऊनम् नवभिः पञ्चदशैः शतैः अर्द्धमण्डलं छित्त्वा । तावत् एकैकेन अहोरात्रेण सूर्यः कति मण्डलानि चरति ? तावत् एकम् अर्द्ध मण्डलं चरति । तावत् एकैकेन अहोरात्रेण नक्षत्र कति मण्डलानि चरति ? तावत् एकं मण्डलं चरति द्वाभ्यां भागाभ्यामधिकम् सप्तभिः द्वात्रिशैः शतैः अर्द्धमण्डलं छित्त्वा । तावत् एकैकं मण्डलं चन्द्रः कतिभिरहोरात्रैः चरति ? तावत् द्वाभ्याम् अहोरात्राभ्यां चरति एकत्रिशता भागैरधिकाभ्यां चतुर्भिः द्विचत्वारिंशः शतैः रात्रिन्दिवं छित्त्वा । तावत् एकैकं मण्डलं सूर्यः कतिभिरहोरात्रैः चरति ? तावत् द्वाभ्याम् अहोरात्राभ्यां चरति । तावत् एकैकं मण्डलं नक्षत्रं कतिभिरहोरात्रैः चरति ? तावत् द्वाभ्यामहोरात्राभ्यां चरति, द्वाभ्यां भागाभ्यामूनाभ्याम् त्रिभिः सप्तषष्टिःशतैः रात्रिन्दिवं छित्त्वा । तावत् युगेन चन्द्रः कति मण्डलानि चरति ? तावत् अष्ट चतुरशीतानि मण्डलशतानि चरति । तावत् युगेन सूर्यः कति मण्डलानि चरति ! तावत् नव पञ्चदशानि मण्डलशतानि चरति । तावत् युगेन नक्षत्रं कति मण्डलानि चरति ? तावत् अष्टादश पञ्चत्रिशा नि द्विभाग मण्डलशतानि चरति । इत्योमुहूर्त गतिः ऋक्षादिमास रात्रिन्दिव युग मण्डल प्रविभक्ति शोघ्रर्गातवस्तु आख्यातम् इतिब्रवीमि ।। सूत्र ॥
। पञ्चदशं प्राभृतं समाप्तम् ॥१५॥ व्याख्या --- 'ता एगमेगेणं' इति 'ता' तावत् 'एगमेगेणं अहोरत्तेणं' एकैकेन अहोरात्रेण 'चंदे' चन्द्रः 'कइमंडलाइं चरइ' कतिमण्डलानि चरति ? भगवानाह 'ता' तावत् ‘एगंअद्धमंडल' एकमर्द्धमण्डलं, तच्च 'एकतीसाए भागेहिं ऊणं' एकत्रिंशता भागैरूनं होनम् कथम्-'णवहिं पण्णरसेहिं सएहि पञ्च दशाधिकैवभिः शतैः (९१५) 'अद्धमंडलं छित्ता' अर्द्धमण्डलं छित्त्वा-एकस्यार्द्धमण्डलस्य पञ्चदशाधिकनवशतभागान् कृत्वा तन्मध्यात् एकत्रिंशद्भागैन्युनमद्धमण्डलम् 'चरई' चरति । तदेव दर्यते-एकस्मिन् युगे त्रिंशदधिकानि अष्टादशशतानि (१८३०) अहोरात्राणां भवन्ति चन्द्र मण्डलानि परिपूर्णानि चतुरशोत्यधिकानिअष्टशतानि (८८४) भवन्ति तेषामर्द्ध मण्डलानि अष्ट षष्टयधिकानि सप्तदशशतानि (१७६८) जायन्ते तत स्त्रैराशिकं क्रियते-यदि त्रिंशदधिकाष्टादश शतरात्रिन्दिवैः अष्टषष्टयधिकानि सप्तदश शतानि चन्द्रस्यार्द्धमण्डलानां लभ्यन्ते तदा एकेन रात्रिन्दिवेन कति मण्डलानि लभ्यन्ते