SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ चन्द्रज्ञप्तिप्रकाशिकाटीका प्रा० १ - २५०६ औतरार्द्धमण्डलसंस्थितिस्वरूपम् ४३ 'अद्धमंडल संठिई' अर्द्धमण्डलसंस्थितिः 'आहिया' आख्याता 'त्तिवएज्जा' इति वदेत् एतद् वदतु भगवान् इति - प्रश्नः । भगवानाह - 'ता' तावत् 'अयण्णं' अयं खलु 'जंबुद्दीवे दीवे' जम्बूद्वीप द्वीपः मध्यजम्बूद्वीपः 'सव्वढीव जाव परिक्खेवेणं' सर्वद्वीप यावत् परिक्षेपेण सर्वद्वीपसमुद्राणां मध्ये सर्वाभ्यन्तरः सर्वेभ्यो द्वीपसमुद्रेभ्यः क्षुल्लकः एकलक्षयोजनायामविष्कम्भपरिमाणवत्त्वात्, परिक्षेपेण परिधिना पूर्वप्रदर्शितप्रमाणेन 'पण्णत्ते' प्रज्ञप्तः । 'ता' तावत् 'जया' यदा खल 'सूरिए' सूर्यः 'सव्वव्यंतरं ' सर्वाभ्यन्तरं सर्वाभ्यन्तरस्थितां 'उत्तर' औत्तरां उत्तरदिग्भाविनीं 'अद्धमंडल संठिई' अर्धमण्डसंस्थितिं ' उवसंकमित्ता चारं चरइ' उपसंक्रम्य चारं चरति 'तया णं' तदा खलु 'उत्तम कट्टपत्ते' उत्तमकाष्ठाप्राप्तः उक्कोसए' उत्कर्षकः 'अट्ठा - रसमुहुत्ते दिवसे भवइ' अष्टादशमुहूर्ती दिवसो भवति, 'जहणिया' जघन्यिका सर्वलम्वी 'दुवाल - समुहुत्ता राई भवई' द्वादशमुहूर्त्ता रात्रिर्भवति । अग्रे प्रथमे षण्मासे, द्वितीये षण्मासे इति परिपूर्णे आदित्य संवत्सरे यथा दाक्षिणात्याया अर्धमण्डलसंस्थितेर्व्याख्या कृता तथैवास्या औत्तराया अर्ध मण्डलसंस्थितेरपि सर्वा व्याख्याऽवसेया, विशेषस्तु एतावानेव यद् दाक्षिणात्यार्घमण्डलसंस्थितौ 'दाहिणं दाहिणाए' दाक्षिणात्यां दाक्षिणात्यात्' इति दाक्षिणात्य शब्देन व्याख्यात तदत्र औत्तरायामर्धमण्डसंस्थितौ सर्वत्र उत्तरं उत्तराए' 'औत्तरां औतरात्' इति शब्देन व्याख्येयम्, शेषं सर्वं दाक्षिणात्यार्धमण्डसंस्थितिदेव विज्ञेयमतोऽत्र विस्तरभयान्न व्याख्या कृता । मूलार्थः सर्वोऽपि छायागम्यत्वात् सुगम एवेति विरम्यते ॥ सू० ६ ॥ ।। इत्यौत्तरा अर्धमण्डलसंस्थितिः समाप्ता ॥ ॥ इति प्रथमस्य प्राभृतस्य द्वितीयं प्राभृतप्राभृतं समाप्तम् ॥ गतं प्रथमस्य मूलप्राभृतस्य द्वितीय प्राभृतप्राभृतम्, साम्प्रतं ' किं ते चिण्णं पड़िचर' | इति चीर्णप्रतिचरणाधिकारविषयकं तृतीयं प्राभृतप्राभृतं व्याख्यायते - ' ता किं ते चिणं' इत्यादि । मूलम् - ता किं ते चिण्णं पडिचरइ आहितेति वदेज्जा ?, तत्थ खलु इमे दुवे सूरिया पण्णत्ता तं जहा - भारहे वेव सूरिए 2, एखए चैव सूरिए । ता एते णं दुवे सूरिया पत्तये २ तीसाए २ मुहुत्तेहिं एगमेगं अद्धमंडल चरइ सट्ठीए सट्ठीए मुहुत्तेर्हि एगमेगं मंडलं संघाएं ते । ता णिवखममाणा खलु एते दुवे सूरिया णो अण्णमण्णस्स चिणं पडिचरंति, पविसमाणा खलु एते दुवे सूरिया अण्णमण्णस्स चिणं पडिचरंति, तत्थ णं को हेउ-त्ति वदेज्जा ? ता अयणं जंबुद्दीवे दीवे जाव परिक्खेवेणं पण्णत्ते । तत्थ णं अयं भारहे चेव सूरिए जंबुद्दीवस्स दीवस पाईणपडीणाययाए उदीणवाहिणाययाए जीवाए मंडलं चउवीसएणं सरणं
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy