SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ४२ चन्द्रप्राप्तिसूत्रे मन् सूर्यः नवं संवत्सरं अयन् प्रथमे अहोरात्रे औत्तरात् अन्तराद् भागात् तस्यादि. प्रदेशात् अभ्यन्तरानन्तरं दाक्षिणात्यां अर्धमण्डलसंस्थितिम् उपसंक्रम्य चारं चरति । तावत् यदा खलु सूर्यः अभ्यन्तरानन्तरां दक्षिणात्यां अर्धमण्डलसंस्थितिं उपसंक्रम्य चारं चरतितदा खलु अष्टादशमुहूर्तो दिवसो भवति द्वाभ्याम् एकषष्टिभागमुहूर्ताभ्यां ऊनः, द्वादशमुहूर्ता रात्रिर्भवति द्वाभ्यां पकषष्टिभागमहर्ताभ्यां अधिका। अथ निष्क्रामन् सूर्यः द्वितीये अहोरात्रे दाक्षिणात्यात् अन्तराद् भागात् तस्यादिप्रदेशात् अभ्यन्तरानन्तरां तृतीयां औत्तरां अर्धमण्डलसंस्थितिम् उपसंक्रम्य चारं चरति । तावत् यदा खलु सूर्यः अम्यन्तरानन्तरां तृतीयां औत्तरां अर्धमण्डलसंस्थितिं उपसंक्रम्य चारं चति तदा खलु अष्टादशमुहूर्तो दिवसो भवति चतुर्भिरेकषष्टिभागमुहूर्तः ऊनः, द्वादशमुहूर्त्ता रात्रिर्भवति चतुर्भिरेकषष्टिभागमुहूत्तैरधिका । एवं खलु पतेन उपायेन निष्क्रामन् सूर्यः तदन्तरात् तदनन्तरां तस्मिन् तस्मिन् देशे तां तां अर्धमण्डलसंस्थितिं संक्रामन् २ औत्तरात् अन्तरात् भागात् तस्यादिप्रदेशात् सर्वबाह्यां दाक्षिणात्यां अर्धमण्डसंस्थितिं उपसंक्रम्य चारं चरति । तावत् यदा खलु सर्वबाह्यां दाक्षिणात्यां अर्धमण्डसंस्थितिं उपसंक्रम्य चारं चरति तदा खलु उत्तमकाष्ठाप्राप्ता उत्कर्षिका अष्टादशमुहूता रात्रिर्भवति, जघन्यकः द्वादशमुहूत्तों दिवसो भवति एतत् खलु प्रथमं षण्मासम् । एतत् खलु प्रथमस्य षण्मासस्य पर्यवसानम् । __ अथ प्रविशन् सूर्यः द्वितीयं षण्मार्स अयन् प्रथमे अहोरात्रे दाक्षिणात्यात् अन्तराद् भागात् तस्यादिप्रदेशात् बाह्यानन्तरां औत्तरां अर्धमण्डलसंस्थितिं उपसंक्रम्य चार घरति तावत् यदा खलु सूर्यः बाह्यानन्तरां औत्तरां अर्धमण्डलसंस्थितिं उपसंक्रम्य चारं चरति तदा खलु अष्टादशमुहूर्ता रात्रिर्भवति द्वाभ्यामेकषष्टिभागमुहूर्ताभ्याम् ऊना, द्वादशमुहूर्तों दिवसो भवति द्वाभ्यामेकषष्टिभागमुहूर्ताभ्यामधिकः । अथ प्रविशन् सूर्यः द्वितीये अहोरात्रे औत्तरात् अन्तराद् भागात् तस्यादिप्रदेशात् बाह्यां तृतीयां दाक्षिणात्यां अर्धमण्डलसंस्थिति उपसंक्रम्य चारं चरति । तावत् यदा खलु बाह्यां तृतीयां दाक्षिणात्यां अर्धमण्डलसंस्थिति उपसंक्रम्य चारं चरति तदा खलु अष्टादशमुहूर्ता रात्रिर्भवति चतुर्भिरेकष्टिभागमुहूर्तः ऊना, द्वादशमुहूत्तों दिवसो भवति चतुर्भिरेकषष्टिभागमुहूत्तरधिकः । एवं खलु एतेन उपा. येन प्रविशन् सूर्यः तदनन्तरात् तदनन्तरां तस्मिन् तस्मिन् देशे तां तां अर्धमण्डलसंस्थितिं संक्रामन् २ दाक्षिणात्यात् अन्तराद् भागात् तस्यादिप्रदेशात् सर्वाभ्यन्तरां औत्तरां अर्ध मण्डलसंस्थितिं उपसंक्रम्य चारं चरति । तावत् यदा खलु सर्वाभ्यन्तरां औत्तरां अर्धमण्डलसंस्थितिं उपसंक्रम्य चारं चरति तदा खलु उत्तमकाष्ठाप्राप्तः उत्कर्पकः अष्टादशमुहूर्तो दिवसो भवति, द्वादशमुहर्ता रात्रिर्भर्वात । एतत् खलु द्वितीयं षण्मासम् । एतत् खलु द्वितीयस्य षण्मासस्य पर्यवसानम् । एष स्खलु आदित्यः संवत्सरः । एतत् खलु आदित्यसंवत्सरस्य पर्यवसानम्' । सू० ६। । औत्तरा अर्धमण्डल संस्थितिः समाप्ता ॥ 'प्रथमस्य मामृतस्य द्वितीयं प्राभृतप्राभृतं समाप्तम् ॥१-२॥ व्याख्या- 'ता तावत् 'कह' कथं केन प्रकारेण 'ते' तव मते उत्तरा' भौत्तरा
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy