________________
चन्द्रशतिप्रकाशिकाटीका प्रा. १५. सू. ३
चन्द्रादीनां नाक्षत्रमास चरणनिरूपणम् ६१७
अष्टचत्वारिंशदधिकद्विशतभागाः (१५
इति ।
1
अथाभिवर्धितमासेन नक्षत्रमण्डलात्याह- 'ता अभिवढियएणं' इत्यादि ' ता तावत् 'अभिवढियणं मासेणं' अभिवर्द्धितेन मासेन 'णक्खत्ते' नक्षत्रं 'कइ मंडलाई चरइ' कति मण्डलानि चरति ? भगवानाह - 'तो' तोयत् 'सोलस मंडलाई' षोडश मण्डलानि 'सीयाली सेहिं भागेहिं अहियाई' सप्त चत्वारिंशता भागैरधिकानि 'चोदसहिं अझ free सहिं' अष्टाशीत्यधिकैश्चतुर्दशभिः शतैः (१४८८) 'मंडलं छित्ता' मण्डलं छित्त्वा । परिपूर्णानि षोडश मण्डलानि सप्तदशस्य च अष्टाशीत्यधिक चतुर्दशशत भागां 'कृत्वा तन्मध्यात् सप्तचत्वारिंशतो भागान् ( १६
२४५
२४८
*
४७
१४८८) 'चरइ' चरति । तथा एकस्मिन् युगे अभिवर्द्धितमासस्य चतुश्चत्वारिंशदधिकानि सप्त शतानि ( ७४४ ) त्रयोदश भागा भवन्ति । नक्षत्र मण्डलानि सार्द्ध सप्तदशाधिकानि नवशतानि (९१७ ॥ ) भवन्ति, ततोऽयमपि राशिस्त्रयोदशभिर्गुण्यते जातानि - एकादश सहस्राणि नवशतानि सार्द्ध सप्तविंशत्यधिकानि (११९२७।।) । ततस्त्रैराशिकं क्रियते यदि चतुश्चत्वारिंशदधिकैः सप्तभिः शतैः अभिवद्धितमाससत्कत्रयोदशभागैः सार्द्ध सप्तविंशत्यधिकनवरातोत्तराणि एकादश सहस्राणि (११९२७) नक्षत्रमण्डलानां त्रयोदश भागा लभ्यन्ते तदा एकेन अभिवर्द्धितमासेन कति मण्डलानि लभ्यन्ते ? राशित्रयस्थापना-(७४४ । ११९२७॥ - १) अत्रान्त्येन राशिना एकक लक्षणेन मध्योराशिण्यते जातस्तावानेव (११९२७|| ) ततोऽस्य राशेः आद्येन राशिना चतुश्चत्वारिंशदधिक सप्तशतरूपेण भागो हियते लब्धानि षोडश मण्डलानि (१६) शेषातिष्ठति सार्द्धा त्रयोविंशतिः (२३ |), अस्या अष्टाशीत्यधिक चतुर्दशशतभाग करणार्थम् अष्टाशीत्यधिक चतुर्दशशतै ( १४८८) र्गुण्यंते, जातानि चतुस्त्रिंशत् सहस्राणि नवशतानि अष्टषष्ट्यधिकानि (३४९६८), अस्य राशेरपि चतुश्चत्वारिंशदधिक सप्तशतैः ( ७४४ ), भागो हियते, हृते च भागे लभ्यन्ते सप्तचत्वारिंशत् (४७) तत् आगतम्-नक्षत्र - परिपूर्णानि षोडश मण्डलानि सप्तदशस्य मण्डलस्य च सप्तचत्वारिंशतम् अष्टाशीत्यधिकचतुर्दशशतभागान् (१६/४७ एकेनाभिवर्द्धितमासेन
१४८८
चरति चन्द्रसूर्य नक्षत्रमण्डला नयनविधिरयम् अत्र एकस्य मासस्य त्रयोदश भागा गृहीताः, एषु यावतां भागानां मण्डलजिज्ञासा भवेत् तावद्भिर्भागैश्चन्द्र-सूर्य-नक्षत्रमण्डलानि गुणयित्वा चतुश्चत्वारिंशदधिकसप्तशतै: ( ७४.४) भागो हरणीयः भागे हृते यावन्ति लभ्यन्ते सानि मण्डलानि ज्ञातव्यानि । एवं कराणेन अभिवर्धितमासस्य प्रथमे एकस्मिन् भागे चन्द्रः
७८