SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रज्ञाप्तसत्र षडशोत्यधिकन शतेन (१८६) गुण्यते जातानि-एक षष्टिः सहस्राणि सप्तशतानि द्विपज्चशिदधिकानि' (६१७५२), अस्य राशेरपि चतुश्चत्वारिंशदधिकसप्तशतराशिना (७४४), भागी हियतें लब्धास्यशीति गाः (८३) तत आगतम्-पञ्चदश मण्डलानि परिपूर्णानि षोडशस्य च मण्डलस्य त्र्यशीतिः षडशीतिशतभागाः (१५/८३) एकेनाभिवर्द्धितमासेनं चन्द्रमण्डलानां लभ्यन्ते, इति । अयाभिवतिमासेन सूर्यमण्डलावेचारमाह-'ता अभिवइढिएणं' इत्यादि, 'ता' तावन, अभिवइदिएणं मासे गं' एकेन अभिवर्द्धितेन मासेन 'सरिए' सूर्यः 'कइमंडलाई चर' कति मण्डलानि चरति ? भगवानाह -सोलसमंडलाई' षोडशमण्डलानि 'तिहिं भागेहिं ऊणगाई' त्रिभिर्भागमण्डलसत्कै ऊनकानि न्यूनानि, कथमित्याह-'दोहिं अडयाछेहि पाहि मंडलं किता' दाभ्यां शताभ्याम् अत्यारिंशधिकाभ्यां (२४८) मण्डल छित्वा एकस्य मण्डलस्य अष्टचत्वारिंशदधिके द्वेशते भागानां कृत्वा तन्मध्यात् त्रिभिर्भागै न्यूनौनि षोडशमण्डलानि । किमुक्तं भवति-परिपूर्णानि पञ्चदशमण्डलानि, षोडशस्यच मण्डलस्य भष्टचत्वारिंशदधिक द्विशतभागसत्कभागत्रयन्यूनान्-इति पञ्चचत्वारिंशदधिकद्विशतभागान् (१५/१४१) 'चरइ' चरति । कथमित्याह-एकस्मिन् युगे पूर्वप्रदर्शितरीत्याऽभिवर्द्धितमासस्य चतुश्चत्वारिंशदधिकानि सप्तशतानि (७४४) त्रयोदशभागाः भवन्ति, सूर्यश्चैकस्मिन् युगे पञ्चदशाधिकानि नव मण्डलशतानि (९१५) चरति, अत्रैकस्य मासस्य पृच्छा तत एकं त्रयोदशभिर्गुणयित्वा त्रयोदश भागाः क्रियन्ते ततस्त्रैराशिकं क्रियते, तथाहि-यदि-चतुश्चत्वारिंशदधिकसप्तशतभागैः पञ्चदशाधिकानि, बशतानि :सूर्यमण्डलानां लभ्यन्ते तदा एकाभिवर्द्धितमामसत्कत्रयोदशभागैः कृति मण्डलानि लभ्यन्ते ? राशित्रयस्थापना (७४४।। ९१५ । १३) अत्रान्त्येन राशिना त्रयोदशलक्षणेन मध्यो राशिः पञ्चदशाधिक नवशतरूपो गुण्यत जातानि एकादश सहस्राणि अष्टौ शतानि पञ्चनवत्यधिकानि (११८९५) अस्यायेन राशिनी चतुश्चत्वारिंशदधिक सप्तशर्तरूपेण (७४४) भागो हियते, लब्धानि पञ्चदशमण्डलानि शेषाणि तिष्ठन्ति पञ्चत्रिंशदधिकानि सप्तशतानि (७३५) एतानि अष्टचत्वारिशदधिक द्विशतभागकरणार्थ अष्ट चत्वारिंशदधिकाभ्यां द्वाभ्यां शताभ्यां गुण्यन्ते जातानिएक लक्ष, द्वयशोतिः सहस्राणि, द्वेशते अशीयधिके (१८२२८०) अस्य राशेरपि चतुश्चत्वारिंशदधिकैः सप्तभिश्शतैः (७४४) भागो हियते, लब्धे, पञ्चचत्वारिंशदधिके द्वेशते (२४५), तत आगतम् परिपूर्णानि पञ्चदशमण्डलस्य पञ्च चत्वारिंशदधिकद्विशतसंख्यका २४८ ...
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy