SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिसूत्र चतुकेनापवर्तना क्रियते चतुष्केन भागहरणेनापहारः क्रियते इत्यर्थः, ततश्चतु श्चत्वारिशतश्छेद्यराशेरपवर्तनायां लभ्यन्ते एकादश ११, षष्टिरूपस्य छेदकराशेरपवर्तनायां लभ्यन्तें पञ्चदशेति समागतम् -चतुर्दश मण्डलानि परिपूर्णानि पञ्चदशस्य मण्डलस्य चैकादश पञ्चदशः । अथादित्यमासेन सूर्यचारमाह-'ता आइच्चेण इत्यादि, 'ता' तावत् 'आइच्चेण मासण' आदित्येन मासेन 'सूरिए' सूर्यः 'कइ मंडलाई चरइ' कतिमण्डलानि चरति ! भगवामाह-'ता पण्णरस' इत्यादि, 'ता' तावत् 'पण्णरस मंडलाई' पञ्चदश मण्डलानि 'चउ भागाहियाई' चतुर्भागाधिकानि चतुर्थ भागेन षोडशस्य च मण्डलस्य षष्टिभागा विभक्तस्य पश्चदशभागात्मकेन अधिकानि । (१५ -.) 'चरइ' चरति । तथाहि-यदि युगसम्बन्धिभिः षष्टि सूर्यमासैः पश्चदशाधिकानि । मव मण्डलशतानि सूर्यस्य लभ्यन्ते ? तदा । एकेन मालेन कति मण्डलानि लभ्यन्ते । राशित्रयस्थापना -६०।९१५।१ ।::: राशिना मध्यराशिं गुणयित्वा षष्टया भागो हियते लब्धानि परिपूर्णानि पञ्चदश मण्डलानि, षोडशस्य मण्डलस्य च पञ्चदश षष्टिभागाः (१५/-) सपाद पञ्चदश मण्डलानि चरतीति भावः । अथादित्यमासेन नक्षत्रचारमाह-'ता आइच्चेणं' इत्यादि, 'ता' तावत् 'आइच्चेणं मासेणं' आदित्येन मासेन ‘णक्खसे' नक्षत्रं 'कइ मंडलाई चरइ' कति मण्डलानि चरति ? भगवानाह-'ता' तावत् 'पण्णरस चउब्भागाहियाइं मंडलाई' पञ्चदश चतुर्मागाधिकानि मण्डलानि षोडश मण्डलसम्बन्धि चतुर्थ भागेनाधिकानि मण्डलानि सपाद पञ्चदश मण्डलानीत्यर्थः पुनश्च 'पंचय वीससयभागे मंडलस्स' पञ्च च विंशशतभागान् मण्डलस्य एकस्य मण्डलस्य पञ्च च विंशत्यधिक शत भागाम् (१ ति । किमुक्त 34 भवति-पञ्चदशपरिपूर्णानि मण्डलानि १५, षोडशस्य च मण्डलस्य चतुर्थों भाम: विशत्यधिकशतभागसत्कस्त्रिंशत्प्रमितः, पञ्च चान्ये सूत्रोक्ता विंशत्यधिक शत भागाः इति मिलित्वा जायन्ते पश्चत्रिशद्विशत्यधिकशतभागाः (१५-१.) इति । कथमित्याह एकस्मिन् युगे आदित्यमासाः षष्टिः (६०), नक्षत्र मण्डलानि च सार्द्ध सप्तदशाधिकानि नवशतानि (९१७॥) इति त्रैराशिकं क्रियते-यदि षष्टया सूर्यमासैः सार्द्धसप्तदशाधिकानि
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy