SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा.१५ सू.३ चन्द्रादीनां नाक्षत्रमास चरणनिरूपणम् । ऋतुमासैः पञ्चदशोत्तराणि नवशतानि सूर्यमण्डलानि लभ्यन्ते तदा एकेन ऋतुमासेत- कति सूर्यमण्डलानि लभ्यन्ते ? राशित्रयस्थापना ६११९१५।१ अत्रापि अन्त्येन राशिना मध्यम राशिं पञ्चदशाधिकनवशतरूपं गुणयित्वा आधराशिना एकषष्टिरूपेण भागो हियते, लभ्यन्ते परिपूर्णानि पञ्चदश मण्डलानि । अथ ऋतुमासेन नक्षत्रचारमाह-'ता उउणा' इत्यादि 'ता' तावत् उउणा मासेण ऋचना ऋतुसम्बन्धिना मासेन 'नरखत नक्षनं 'कइमंडलाइं चरइ' कतिमण्डलानि चरति ! भगवानाह-'ता' तावत् ‘पण्णरस मंडलाई' पञ्चदश मण्डलानि तथा 'मंडलस्स' षोडशः मण्डलस्य 'पंचय बावीस सयभागे' पञ्चचद्वाविंशति शतभागान् (१५ ) 'चरई' गार ( १२२ । घर चरति । कथमित्याह-एकस्मिन् युगे एकषष्टिः ऋतुमासा (६१) नक्षत्रमण्डलानि सार्द्धसप्तदशाधिकानि नव मण्डलशतानि (९१७॥) ततस्त्रैराशिकं क्रियते तथाहि-यदि एकषष्टिमासैः साई सप्तदशाधिकानि नव शतानि नक्षत्रमण्डलानां लभ्यन्ते तदा एकेन ऋतुमासेत: कति मण्डलानि लभ्यन्ते ? राशित्रयस्थापना (६१।९१७।१) अत्रापि अन्त्यराशिना मध्यराशिः गुणयित्वा आधराशिना भागे हृते लभ्यन्ते पञ्चदश (१५) मण्डलानि शेषं साढ़े द्वे (२) भस्य सार्द्धद्विकस्य द्वाविंशत्यधिकशतभागकरणार्थं सार्द्ध द्विकं द्वाविंशत्यधिकशतेन गुण्यते, जातानि पञ्चोत्तराणि त्रीणि शतानि (३०५) तत एकषष्टया भागो हियते लब्धाः पञ्च द्वाविंशत्यधिकशत भागाः ( १५:२३) इति । सम्प्रतं सूर्यमासमधिकृत्य चन्द्रादीनां मण्डलानि प्रदर्शयति-ता आइच्चेणं' इत्यादि, 'ता', तावत् 'आइच्चेणं मासेणं' आदित्येन मासेन 'चंदे' चन्द्रः 'कइमंडलाइं चरइ' कतिमण्ड लानि चरति ? भगवानाह-'ता' तावत् 'चोइस मंडलाई' चतुर्दश मण्डलानि, तदुपरि च 'मंडलस्स' पञ्चदशस्य मण्डलस्य ‘एक्कारस पंचदसभागे' एकादश पञ्चदशभागान् (१४ ) 'चरई' चरति । कथमित्याह-एकस्मिन् युगे आदित्य मासाः षष्टिः (६०), चन्द्रमण्डलानि चतुरशीत्यधिकानि अष्टौ शतानि (८८४), ततस्त्रैराशिकं क्रियते, तथाहि-यदि षष्टया आदित्य मासैः चतुरशीत्यधिकानि अष्टौ मण्डलशतानि चन्द्रस्य लभ्यन्ते तदा एकेन आदित्यमासेन कति मण्डलानि लभ्यन्ते ? राशित्रयस्थापना-६०८८४।१। अत्रान्त्येन राशिना मध्यो राशि र्गुणिती जातस्तावानेव (८८४), अस्याद्यराशिना भागो हियते लब्धानि चतुर्दश मण्डलानि, तिष्ठन्ति, शेषाचतुश्चत्वारिंशत् (४४) ततोऽस्य छेधराशेश्चतुश्चत्वारिंशद्रूपस्य छेदकराशेः षष्टिरूपस्य च
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy