________________
.
६१२
चन्द्रप्राप्तिसूत्रे अष्टादश शतानि अर्द्धमण्डलानां लभ्यन्ते तदा द्वाभ्यां पर्वभ्यां कति मण्डलानि लभ्यन्ते ! राशित्रयस्थापना १२४ । १९३५ । २ । ततोऽन्त्येन राशिना द्विकरूपेण मध्यराशेर्गुणने जायन्ते सप्तत्यधिकानि षट् त्रिंशच्छतानि (३६७०)एषामाध राशिना चतुर्विंशत्यधिकशतरूपेण भागे हृते लब्धा एकोनत्रिंशत् (२९) शेषास्तिष्ठन्ति चतुस्सप्तति भागाः (७४)। इदं चा गतमर्द्धमण्डलानां परिमाणम्, द्वाभ्यामर्द्धमण्डलाभ्यामेकं परिपूर्ण मण्डलं जायते ततोऽनयोलब्ध शेषरूपयोः राश्यो र्द्धाभ्यां भागो हरणीयः अथवाऽनयोरट्टै क्रियते द्वयमपि समान फलं भवति, तथाहि एकोनत्रिंशतो द्वाभ्यां भागे हृते लब्धानि चतुर्दश मण्डलानि शेषमेकमित्यस्य चतुर्विशत्यधिक भागकरणाथै चतुर्विशत्यधिकशतेन एककं गुण्यते जातं चतुर्विशत्यधिकं शतम् (१२४) तच्च पूर्व शेषी भूतचतुः सप्ततौ प्रक्षिप्यन्ते जातम् अष्टनवत्यधिकं शतम् (१९८) अस्य द्वाभ्यां भागो हियते लब्धा नव नवतिः (९९) तत आगतम् परिपूर्णानि चतुर्दश मण्डलानि पञ्चदशस्य च मण्डलस्य नव नवति श्चतुर्विशत्यधिकशतभागाः
- अथ ऋतुमासमधिकृत्य चन्द्रादीनां मण्डलनिरूपणा क्रियते 'उउणा मासेणं' इत्यादि 'उउणा मासेणं' ऋतुसम्बन्धिना मासेन कर्ममासेनेत्यर्थः 'चंदे' चन्द्रः 'कइमंडलाइं चरई' कति मण्डलानि चरति ? भगवानाह-'ता चोइस' इत्यादि 'ता' तावत् चोदसमंडलाई' चतु-: देश मण्डलानि परिपूर्णानि 'मंडलस्स' पञ्चदशस्य च मण्डलस्य 'तीसं च एगट्ठिभागे' त्रिंशतं चाएकषष्टि भागान् ( १४३०) 'चरइ' चरति । कथमित्याह-एकस्मिन् युगे एक षष्टिः ऋतुमासा इति कर्ममासा भवन्ति , चन्द्रश्चैकस्मिन् युगे चतुरशीत्यधिकाष्टशतमण्डानि चरतीति त्रैरा शिकं क्रियते, तथाहि-यदि एक षष्टया कर्ममासैश्चतुरशीत्यधिकानि अष्टमण्डलशतानि लभ्यन्ते तदा एकेन कर्ममासेन कति मण्डलानि लभ्यन्ते ! राशित्रयस्थापना-६१।८८४।१। तत्रान्त्येन राशिना मध्यराशिर्गुणितो जातस्तावानेव (८८४) तत आयेन राशिना एकषष्टिरूपेण भागो हियते, लब्धानि परिपूर्णानि चतुर्दश मण्डलाणि पञ्चदशस्य च मण्डलस्य त्रिंशदेकषष्टिभागाः (१४%) इति ।
अथ ऋतुमासेन सूर्यचारमाह—'ता उउणा' इत्यादि, 'ता' तावत् उउणा मासेणं' ऋतुना ऋतुसम्बन्धिना मासेन 'सरिए' सूर्यः 'कइ मंडलाई चरई' कति मण्डानि चरति ! भगवानाह-'ता' तावत् 'पण्णरस मंडलाई चरइ' पञ्चदश मण्डलानि चरति तथाहि-एकषष्टिः ऋतुमासाः पञ्चदशाधिकानि नव मण्डलशतानि सूर्यस्य भवन्ति ततो यदि एकषष्टया