SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रज्ञाप्तस्त्रे मण्डलानि चरति ? भगवानाह-'ता तेरस' इत्यादि 'ता' तावत् 'तेरस मंडलाई त्रयोदश मण्डलानि 'अद्ध छीयालीसं च सत्तढिभागे मंडलस्स' चतुर्दशस्य अर्द्धन सहितान् षट्चत्वारिंशतं सप्तेष्टिभागान् (१३४६॥, 'चरइ' चरति । कथमिति प्रदर्श्यते- नक्षत्रमासा युग सम्बन्धि नः सप्तषष्टिरेव, नक्षत्रमण्डलानि चैकस्मिन् युगे अर्द्धन सहितानि सप्तदशोत्तराणि नव शतामि (९१७॥) भवन्ति ततस्त्रैराशिकं क्रियते यदि सप्तषष्टया नाक्षात्रमासैः सार्धानि सप्तदशोत्तराणि नशतानि (९१७॥) नक्षत्रमण्डलानां लभ्यन्ते तदा एकेन नाक्षत्रमासेन कति मण्डलानि लभ्यन्ते ! राशि त्रयस्थापना ((६७।९१७॥-१) अत्राप्यन्त्येन राशिना मध्ये राशौ गुणिते जातस्तावानेव (९१७॥) ततः सप्तषष्टया भागहरणं क्रियते, लब्धानि त्रयोदश मण्डलानि शेषाः स्थिता सार्धाः षट् चत्वारिंशत् , ते च सप्तषष्टिभागास्तत आगतम्- त्रयोदश मण्डलानिचतुर्दशस्य मण्डलस्य सार्द्धा षट् चत्वारिंशत् सप्तषष्टिभागाः (१३-०३) इति । अथ चन्द्रमास मधिकृत्य चन्द्रादोनां मण्डलानि प्रदर्श्यते-'ता चंदेणं' इत्यादि, 'ता' तावत् 'चंदेणं मासेगं' चान्द्रेण मासेन 'चंदे' चन्द्रः 'कइ मंडलाइं चरइ' कति मण्डलानि चरति ? भगवानाह-'ता चोदस' इत्यादि, 'ता' तावत् 'चोइस' चउभागाइं मंडलाई' चतुर्दश चतुर्भागानि चतुर्थभागेन एकत्रिंशदूपेण सहितानि मण्डलानि, 'मंडलस्स' एकस्य मण्डलस्य'एवं च चउवोससयभागं' एकं चतुर्विशतभागम् , अयं भावः-परिपूर्णानि चतुर्दश मण्डलानि पञ्चदशस्य च मण्डलस्य चतुर्भाग-चतुर्विशत्यधिकशत सत्कमेक त्रिंशद्भागप्रमाणम् , एकं च चतुर्विंशत्यधिकशतस्य भागं द्वात्रिंशतं पञ्चदशस्य मण्डलस्य चतुर्विंशत्यधिकशतभागान् 'चरई' चरति, कथमित्याह-एकस्मिन् युगे द्वाषष्टिश्चन्द्रमासा भवन्ति, एकस्मिन् मासे पर्वद्वयमिति चतुविंशत्यधिकं शतं (१२४) पर्वणामेकस्मिन् युगे भवति । चन्द्रमण्डलानि च चतुरशीत्यधिकानि मष्ठौ शतानि (८८४) भवन्ति पर्वद्वयविषया चात्र पृच्छा ततस्त्रैराशिकं क्रियते, तथाहि-यदि चतुर्विशत्यधिकेन पर्वशतेन चतुरशीत्यधिकानि अष्टौ शतानि मण्डलानि लभ्यन्ते तत पर्वद्वयेन कति मण्डलानि लभ्यन्ते ! राशित्रयस्थापना-१२४८८४।२। अत्रान्त्येन द्विकलक्षणेन राशिना मध्यो राशिः (८८४) गुण्यते, जातानि अष्टषष्टयधिकानि सप्तदशशतानि (१७६८), एषामाघराशिना चतुर्विशत्यधिकशत-(१२४) रूपेण भागो हियते, लब्धानि चतुर्दश मण्डलानि, शेषा द्वात्रिंशदिति पञ्चदशस्य मण्डलस्य द्वात्रिंशत् चतुर्विशत्यधिक शतभागा (१४२४) इति । . अथ. चन्द्रमासेन सूर्यचारमाह 'ता चंदेणं' इत्यादि, 'ता' तावत् 'चंदेणं मासेणं' एकेन चान्द्रेण मासेण 'सूरिए' सूर्यः 'कइ मंडलाइं चरई' कति मण्डलानि चरति ? भगवानाह
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy