SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिकाटीका. प्रा.१५ सू. ३ चन्द्रादीनां नाक्षत्रमास चरणनिरूपणम् ६०९ लानि तथा 'मंडलस्स' चतुर्दशस्य मण्डलस्य 'तेरस य सत्तविभागे' त्रयोदश च सप्तषष्टि , भागान् ( १३/१३) 'चरइ' चरति एतत् कथमवसीयते ? तत्राह एकस्मिन् युगे सप्तषष्टि -93 नक्षत्रमासा भवन्ति, चन्द्रस्य च चतुरशीत्यधिकानि अष्टशतानि (८८४) मण्डलानि भवन्तिततो यावतां मासानां मण्डलानि ज्ञातुमिच्छेत् तावद्भिर्मासैश्चतुरशीत्यधिकानि अष्टशतानि गुणयित्वा सप्तषष्टया भागो हियते, भागहरणेन यल्लभ्यते तत् मण्डलपरिमाणमायाति । अऋतु , प्रथममासस्य मण्डलानि ज्ञातुमिच्छा ततएककमाश्रित्य त्रैराशिकं क्रियते, तथाहि-यदि सप्तषः । ष्टया नक्षत्र मासैश्चतुरशोत्यधिकानि अष्टौ शतानि मण्डलानि लभ्यन्ते, तदा एकेन नक्षत्रमासेन कति मण्डलानि लभ्यन्ते, राशित्रय स्थापना ।६७।८८४।१। ततोऽन्त्येन राशिना एककरूपेण मध्यराशि ण्यते जातस्तावानेव (८८४) अस्य सप्तषष्टया भागो हरणीयः, हृते च भागे लब्धानि त्रयोदश मण्डलानि, शेषास्त्रयोदश स्थिताः, ते च सप्तषष्टिभागाः, तत आगतम्त्रयोदशमण्डलानि, चतुर्दशस्य मण्डलस्य त्रयोदश सप्तषष्टि भागाः (१३ १२) अथ गौतमः सूर्यविषये प्रश्नं करोति- 'ता णक्खत्तण' इत्यादि, 'ता' तावत् ‘णक्खत्तेण मासेणं' एकेन : नाक्षत्रेण मासेन 'मूरिए' सूर्यः 'कइ मंडलाई चरइ' कति मण्डलानि चरति ? एवं गौतमेन पृष्टे-- भगवानाह- 'ता तेरस' इत्यादि, 'ता' तावत् 'तेरस मंडलाइं' त्रयोदश मण्डलानि 'मंडलस्स' . चतुर्दशस्य मण्डलस्य 'चोयालीसं च सत्तट्ठिभागे' चतुश्चत्वारिंशतं च सप्तषष्टिभागान् । ( १३/१४ ) 'चरइ' चरति । एतदपि गणितेन लभ्यते, तथाहि-एकस्मिन् युगे नक्षत्रमासाः सप्तषष्टिरिति पूर्वमुक्तमेव । एकस्मिन् युगे सूर्यस्य पञ्चदशोत्तराणि नवशतानि मण्डलानि भवन्ति, सूर्य एतावत्सु मण्डलेषु युगे चारं चरति, अत्रापि त्रैराशिकं क्रियते तथाहि-यदिसप्तषष्टया नाक्षत्र मासैः पञ्चदशोत्तराणि नवशतानि मण्डलानि लभ्यन्ते तदा एकेन नाक्षत्रमासेन कति ? मण्डलानि लभ्यन्ते ? ततस्त्रैराशिकं स्थाप्यते-६७।९१५।१। अत्रापि पूर्वोक्त एव विधिः क्रियते ... अन्त्येन राशिना मध्यो शशिर्गुणितो जातस्तावनेव (९१५) ततः सप्तषष्टया भागो हियते, लब्धानि त्रयोदश मण्डलानि शेषाश्चतुश्चत्वारिंशतस्थिताः, ते च सप्तषष्टिभागा इत्यागतम्-त्रयोदश मण्डलानि, चतुर्दशस्य मण्डलस्य च चतुश्चत्वारिंशतसप्तषष्टि भागाः (१३/११) इति । अथ नक्षत्रमासे नक्षत्रस्य मण्डलानि पृच्छति-'ता णक्खत्तेणं' इत्यादि 'ता' तावत् 'णक्खत्तण मासेणं' एकेन नाक्षत्रेण मासेन 'णक्खने' नक्षत्रं 'कइ मंडलाइं चरई' कति १५
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy