________________
चन्द्रप्रातिर तत्तन्मण्डलसम्बन्धिनः परिक्षेपस्य परिधेः 'अट्ठारसपणतीसाइं 'भागसयाई' पञ्चत्रिंशदधिकानि मष्टादश भागशतानि (१८३५) 'गच्छइ' गच्छति, कथम् ? 'मंडलं' एकं मण्डलं 'सयसहस्सेणं अट्ठाणउइसएहिं' शतसहस्रेण अष्टानवतिशतैः 'छित्ता' छित्त्वा विभज्य तन्मध्यात् पूर्वोतानि भागशतानि नक्षत्रं गच्छति, । अत्रापि प्रश्वमं मण्डल कालो निरूपणोयो भवेत् येन तदनुसारेणैव मुर्तगतिगरिमाणभावना ., क्रियते । तत्र मण्डलकालप्रमाणविचारणायां त्रैराशिकं क्रियते, तथाहि-यदि पञ्चत्रिशदधिकाष्टादशशतैः सकल युगमाविभिरर्द्धमण्डलैः त्रिंशदधिकानि अष्टादश रात्रिन्दिवशतानि सकल युगसम्बन्धीनि लभ्यते, तदा द्वाभ्यामर्द्ध मण्डलाभ्यामिति एकैकेन परिपूर्णेन मण्डलेन कति रात्रिन्दिवानि लभ्यते ! तदा राशित्रयस्थापना ।१८३५।१८३०।२। अत्रान्त्येन राशिना मध्यराशेर्गुणने जायन्ते षष्टयधिकानि षट्त्रिंशच्छतानि (३६६०), तत आयेन राशिना (१८३५) भागो हियते, लब्ध मेकं रात्रिन्दिवम् (१) । तिष्ठन्ति शेषाणि पञ्चविंशत्यधिकानि अष्टादशशतानि (१८२५), ततो मुहर्तकरणार्थ मेतानि त्रिंशता गुण्यन्ते, जातानि पञ्चाशदुत्तर सप्तशताधिकानि चतुष्पञ्चाशत्सहवाणि (५४७४०), तेषां पुनस्तेनैव राशिना पञ्चत्रिंदशधिकाष्टादशशतरूपेण भागो हियते, लब्धा एकोनत्रिंशन्मुहूर्ताः (२९), ततः शेषच्छेद्यराशेः छेदकराशेश्च पञ्चकेनापवर्तना क्रियते जात उपरितनो राशिः सप्तोत्तराणि त्रीणि शतानि (३०७), छेदक राशिरधस्तनः सप्तषष्टयधिकानि त्रीणि शतानि (३६७) तत आगंतम् एकं रात्रिन्दिवम्, एकस्य च रात्रिन्दिवस्य एको त्रिंशन्मुहूर्ताः, एकस्य च मुहूत्र्तस्य सप्तोत्तराणि त्रीणि शतानि सप्तषटयधिकत्रिंशत् भागानाम् (१।२९।२००)। एतत् मण्डलकालप्रमाणं जातम् । अथैतदनुसारेणैव मुहूर्त गति परिमाणं परिभाव्यते-मण्डलकालपरिमाणस्य यो राशिरायातस्तत्र एकस्य दिनस्य त्रिंशन्मुहर्ताः करणीयाः, तेषु ये उपरितना एकोनत्रिंशन्मुहूर्तास्ते प्रक्षिप्यन्ते जाता एकोनषष्टिर्मुहर्ताः (५९) ततस्ते सवर्णनार्थमधः स्थितैः सप्तषष्टयधिकै त्रिभिः शतैः र्गुण्यते, जातानि एकविंशति सहस्राणि त्रिपञ्चाशदधिकानि षट्शतानि (२१६५३), एषु चोपरितनानि सप्तोत्तराणि त्रीणि शतानि (३०७) प्रक्षिप्यन्ते, जातानि-एकविंशतिसहस्राणि षष्ट्यधिकानि नवशतानि (२१९६०) । ततस्त्रैराशिकं क्रियते यदि मुर्तगत सप्तषष्टयधिक त्रिशत भागा नामेकविंशति सहनैः षष्टयधिकैवभिः शतैरेकमष्टानवति शताधिकं शतसहस्रं मण्डलभागानां लभ्यते तदा एकेन मुहूर्तेन कति भागा लभ्यते ? राशित्रयस्थापना (२१९६०।१०९८०.। अत्रायो राशिर्मुहूर्तगतसप्तषष्टयधिकत्रिशतभागैर्गुणनेन निष्पन्नस्ततोऽन्त्यस्य राशिरपिएभिर्गुणनं प्राप्यते ततः सप्तषष्टयधिकै स्त्रिभिः शतैः (३६७), अन्त्यो राशि रेककरूपो गुण्यते जातानि तान्येव सप्तषष्टयधिकानि त्रीणि शतानि (३६७), अथ एभिः सप्तषष्टयधिकै त्रिभिः शतैः