SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिकाटीका. प्रा. १५ सू. १ ज्योतिष्काणां शीघ्रगतिनिरूपणम् ६०१ मध्यो राशिः (१०९८००) गुण्यते जाताश्चतस्रः कोट्यः, द्वे लक्षे, षण्णवतिः सहस्राणि, षट्शतानि (४०२९६६००), एषामाघेन राशिना षष्टयुत्तर नवशताधिकैकविंशति सहस्ररूपेण (२१९६०) भागो हियते, लब्धानि यथोक्तानि अष्टादश शतानि पञ्च त्रिंशदधिकानि (१८३५) एतावतो भागान्नक्षत्रं प्रतिमुहत्तं गच्छतीति सिद्धम् । तदेवमागतम्-चन्द्रो यत्र तत्र वा मंडले एकैकेन मुहूर्तन मण्डलपरिक्षेपस्य अष्टषष्टयधिकानि सप्तदशशतानि (१७६८) भागानां गच्छति, सूर्य स्त्रिंशदधिकानि अष्टादशशतानि (१८३०) भागानां गच्छति, नक्षत्रं च पञ्चत्रिंशदधिकानि अष्टादशशतानि (१८३५) भागानां गच्छति ततएव सूत्रे प्रोक्तम्-चन्द्रेभ्यः सूर्याः शीघ्रगतयः, सूर्येभ्यो नक्षत्राणि शीघ्रगतीनि । ग्रहास्तु वक्रत्वातिचारत्वमार्गित्वकारणैरनियत गति प्रस्थानस्ततो न तेषामुक्तप्रकारेण गतिप्रमाणप्ररूपणा कृता । ग्रहा यदि मार्गिणो भूत्वा गच्छन्ति तदा साधारणगत्या सूर्येभ्यः शीघ्रगतय एव भवन्ति सूत्रवाक्यप्रामाण्यात् । नक्षत्रेभ्यस्ताराः शीघ्रगतय इत्यपि सूत्रप्रामाण्याद् बोध्यम् । उक्तञ्च चन्द्रसूर्यनक्षत्रगतिविषये "चंदेहिं सिग्धयरा, रा रेहिं होंति नक्खत्ता । अणियय गइय पत्थाणा हवंतिा सेसा गहा सव्वे ॥१॥ अट्ठारस, पणतीसे भागसए गच्छइ मुहुत्तेण । नक्खत्तं चंदो पुण, सत्तरस सए उ अडसटे ॥२॥ अट्ठारस भागसए, तीसे गच्छइ रवी मुहुत्तेणं । नक्खत्त सीम छेदो, सो चेव इहंपि नायव्वो ॥३॥ छाया-चन्द्रेभ्यः शीघ्रतरा सूर्याः सूर्येभ्यो भवन्ति नक्षत्राणि । अनियतगतिप्रस्थानाः भवन्ति शेषा ग्रहाः सर्वे ॥१॥ अष्टादश पञ्चत्रिंशानि भागशतानि गच्छति मुहूर्तेन । नक्षत्रं चन्द्रः पुनः सप्तदशशतानि तु अष्टषष्टानि ॥२॥ अष्टादशभागशतानि त्रिंशानि गच्छति रविर्मुहूर्तेन । नक्षत्रसीमाछेदः सएव इहापि ज्ञातव्यः ॥३॥ इति । अत्र पूर्व नक्षत्रप्ररूपणा कृताऽतो नक्षत्रगतिपरिणामे यः सीमा छेदः अष्टानवति शताधिक शतसहस्ररूपः कथितः स एव इहापि चन्द्र सूर्यगति परिमाणेऽपि ज्ञातव्यः, पूर्वोक्तच्छेदराशिना चन्द्र सूर्यगति भागा अपि प्रविभक्ता इति भावार्थः । सू० ॥१॥
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy