SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ मानसिप्रकाशिकाटीका प्रा. १५. सू. १ ज्योतिष्काणां शीघ्रगतिनिरूपणम् ५९९ विंशत्यधिकशतद्वयभागानां मण्डलभागाः भष्टनकलि शताधिकैकलक्षप्रमिता लभ्यन्ते तदा एकेन मुहर्तेन ते कति लभ्यन्ते ? राशि त्रयस्थापना- ११३७२५।१०९८००।१॥ इह आधो राशि मुहूर्तगतकविंशत्यधिकशतद्वयभागरूपः (२२१) ततः सवर्णनार्थमन्त्यो राशि रेककरूप एकविंशत्यधिकशतद्वयेन (२२१) गुण्यते जातास्तावानेव एकविंशत्यधिके द्वेशते (२२१) ताभ्यां मध्यो राशिर्गुण्यते, जाते हे कोट्यौ, द्विचत्वारिंशल्लक्षाः, पञ्चषष्टिः सहस्राणि, अष्टौ शतानि (२४२६५८००) तेषामान राशिना पञ्चविंशत्युत्तर सप्तशताधिक त्रयोदश,सहलरूपेण (१३७२५) भागो हियते, लब्धानि सप्तदशशतानि अष्टषष्टयधिकानि (१७६८), एतावतो भागान् यत्र तत्र वा मण्डले चन्द्र एकेन मुहूर्तेन गच्छति । एतत् मन्डलकालानुसारेण मुहर्तगति परिमाणं जातमिति । अथ सूर्यग तिसूत्रमाह-'ता एगमेगेणं' इत्यादि, 'ता' तावत् ‘एगमेगेणं मुहुत्तेणं' एकैकेन मुहूर्तेन प्रतिमुहूर्तेन 'सरिए' सूर्यः 'केवइयाई' कियन्ति 'भागसयाई' भागशतानि 'गच्छइ' गच्छति ? भगवानाइ-'ता' जं जं' इत्यादि 'ता' तावत् सूर्यः जं जं मंडलं' यद् यद् मण्डलं 'उवसंकमित्ता चारं चरइ' उपसंक्रम्य चारं चरति 'तस्स तस्स' तस्य तस्य 'मंडलपरिक्खेवस्स' तत्तन्मण्डलसम्बन्धिनः परिक्षेपस्य परिधेः 'अट्ठारसतीसाई भागसयाई' त्रिंशदधिकानि अष्टादश भागशतानि (१८३०) 'गच्छइ' गच्छति, तानि च 'मंडलं' एक मण्डलं 'सयसहस्सेणं अट्ठाणउइसएहि' शतसहस्रेण लक्षण अष्टानवतिशतैः (१०९८००) अष्टानवति शताधिकेन एकेन लक्षणेत्यर्थः । 'छेत्ता' छित्वा विभज्य तत्सम्बन्धीनि विज्ञेयानि मण्डलस्य अष्टानवति शताधिकैकलक्षभागान् कृत्वा तन्मध्यात् त्रिंशदधिकानि अष्टादश शतानि (१८३०) भागानां सूर्यो गच्छतीति भावः । तदेव गणितेन प्रदश्यते, तथाहिअत्रापि त्रैराशिकं कर्त्तव्यम् सूर्यश्चन्द्राभ्यां द्वे अर्द्धमण्डले इति एकं परिपूर्णमण्डलं गच्छति, ततो द्वयोर्दिनयोः षष्टि मुहूर्ता भवन्तीति यदि षष्टि महत्तैः अष्टानवति शताधिकैकलक्षमण्डल भागा लभ्यन्ते तदा एकेन मुहूर्तेन कति भागा लभ्यन्ते ? राशित्रय स्थापना-६०।१०८००।११ अत्रान्त्येन राशिना मध्य राशि गुण्यते जातस्तावानेव (१०९८००)। ततस्तस्यायेन राशिना षष्टि लक्षणेन भागो हियते, लब्धानि त्रिंशदधिकानि अष्टादश शतानि (१८३०) एतावतो भागान् मण्डलस्य सूर्य एकैकेन मुहूर्तेन गच्छति । ___ अथ नक्षत्रगति सूत्रमाह-'ता एगमेगेणं इत्यादि, 'ता' तावत् 'एगमेगेणं मुहुचेणं' एकैकेन मुहूर्तेन ‘णक्खत्ते' नक्षत्र 'केवइयाइं भागसयाइं गच्छइ' कियन्ति भागशतानि गच्छति ! भगवानाह -'ता जं जं इत्यादि, 'ता तावत् 'जं जं मंडलं' यद् यद मण्डलं 'उवसंकमित्ता' उपसंक्रम्य नक्षत्रं 'चारं चरइ' चारं चरति 'तस्स तस्स मंडलपरिक्खेवल्स'
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy